________________
अनगारधर्मामृते
नु अहो को?न कोपि, कः सर्वज्ञो वा कथयतु ब्रूताम् । कम् ? महिमानम् । कस्य ? धर्मस्य । येन किम् ? येन धर्ममहिम्ना अपोहन्ति व्यावर्तयन्ति । के? मुनीन्द्राश्वरमाङ्गा महामुनयः । किं तत् ? तदपि लोकोत्तरं पदं स्थानम् । किंविशिष्टम् ? आहमिन्द्रं कल्पातीतदेवसंबन्धि प्रैवेयकादिसर्वार्थसिद्धिपर्यन्तम् ? किंविशिष्टाः सन्तो येन धर्ममहिना? स्फुटघटितविवेकज्योतिषः। स्फुटं विस्पष्टं कृत्वा घटिसं योजितं विवेकज्योतिरात्मदेहान्तरज्ञानं यैस्त एवम् । पुनः किविशिष्टाः ? शान्तमोहाः। शान्तः शमितो मोहो यैस्ते । उपशान्तकषायगुणस्थानवर्तिन इत्यर्थः । पुनरपि किं विशिष्टाः ? समेत्यादि । समरसो यथाख्यातचारित्रम् । स एव तेन वा सुखम् । तस्य संविदनुभूतिः । तया लक्षितं स्वयमुपलब्धमत्यक्षसौख्यमऽतीन्द्रियसुखं यैस्ते तथोक्ताः । अयमत्राभिप्राय:-शुद्धोपयोगस्खलितयोगविशेषादहमिन्द्रपदप्राप्तियोग्यसुकृत्तविशेषबन्धोन्मुखा भूत्वा शुद्धोपयोगावष्टम्भात् तमबद्धैवोपशमकश्रेणेरवरुह्य क्षपकश्रेणीमारुह्य जीवन्मुक्ता भूत्वा परमां मुक्तिं गच्छन्ति । अपोहन्तीत्यत्र "उपसर्गादस्यत्यूही वा" इति परसैपदम् । अहमिन्द्रलक्षणमप्युक्तं यथा
नासूया परनिन्दा वा नात्मश्लाघा न मत्सरः।
केवलं सुखसाद्भूता दीव्यन्त्येते दिवौकसः॥ अपि च,
अहमिन्द्रोस्मि नेन्द्रोन्यो मत्तोस्तीत्यात्तकत्थनाः। अहमिन्द्राख्यया ख्यातिं गतास्ते हि सुरोत्तमाः॥ अहमिन्द्रस्येदमित्य(न्) । गर्भावतरणादिकल्याणाश्चर्यविभूतिरपि सम्यक्त्वसहचारिपुण्यविशेषादेव संपद्यते इत्याहघोरेष्यन्विश्वपूज्यौ जनयति जनकौ गर्भगोतीव जीवो, जातो भोगान् प्रभुङ्क्ते हरिभिरुपहृतान्मन्दिरानिष्क्रमिष्यन् । ईर्ते देवर्षिकीति सुरखचरनृपैः प्रव्रजत्याहितेज्यः, प्राप्यार्हन्त्यं प्रशास्ति त्रिजगदृषिनुतो याति मुक्तिं च धर्मात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org