________________
प्रथमोऽध्यायः ।
४५
रुणीनां परिस्पन्दः शृङ्गाररचना । तेन सान्द्रो धनः प्रमोद आनन्दो येषां ते प्रिययुवतिपरिस्पन्दसान्द्रप्रमोदाः । पुनः किं कुर्वन्तः ? दीव्यन्तः क्रीडन्तः । केषु ? दिव्यदेशेषु नन्दनकुलपर्वतनदीसमुद्रादिषु । कथम् ? अविहतमस्खलितम् । पुनः किं विशिष्टाः ? अणिमाद्यद्भुतोत्सृप्तिदृप्ताः अणिमादयोऽणिमा महिमा लघिमा गरिमा ईशित्वं वशित्वं प्राकाम्यं कामरूपित्वं चेत्यष्टौ गुणाः । तेषामद्भुता विस्मयनीया उत्सृप्तिरुद्गतिः । तया हप्ता दर्पिताः। आहारकशरीरसंपदपि पुण्यपवित्रमेत्याह
प्राप्याहारकदेहेन सर्वज्ञं निश्चितश्रुताः।
योगिनो धर्ममाहात्म्यानन्दन्त्यानन्दमेदुराः ॥४५॥ नन्दन्ति ज्ञानसंयमसमृद्धा भवन्ति । के ? योगिनो यतयः । किंविशिष्टाः सन्तः ? आनन्दमेदुराः प्रमोदपरिपुष्टाः । कथंभूता भूत्वा? नि. श्चितश्रुता निर्णीतपरमागमार्थाः । किं कृत्वा ? प्राप्य सविनयमुपसद्य । कम् ? सर्वशं केवलिनम् । केन? आहारकदेहेन । कस्मात् ? धर्ममाहात्म्यात् । धर्मस्य प्राक्चारित्रविशेषबद्धस्याहारकशरीरनामकर्माख्यस्य पुण्यविशेषस्य माहात्म्यं प्रभावस्तस्मात् । यदा भरतैरावतस्थितस्य संयतस्य केवल्यभावे क्वचिच्छुतविषये संशयः स्यात् तदा तत्त्वनिर्णयार्थ महाविदेहेषु केवलिसकाशं गच्छत औदारिकशरीरेणासंयमो भवतीत्याहारकशरीरं निर्वर्तयत्यसौ। तच्च हस्तमात्रं शुद्धस्फटिकसंकाशमुत्तमाङ्गेन निर्गच्छति । तन्न केनचिद्वयाहन्यते, न किमपि व्याहन्ति । केवलमन्तर्मुहूर्तेन संशयमपनीय पुनस्तत्रैव प्रविशति । 'धर्मानुभावजनितस्वपरान्तरज्ञानानां मुनीन्द्राणामतीन्द्रियसुखसंवित्त्या अहमिन्द्रपदण्यावृत्तिं दर्शयति
कथयतु महिमानं को नु धर्मस्य येन, स्फुटघटितविवेकज्योतिषः शान्तमोहाः । समरससुखसंविल्लक्षितात्यक्षसौख्यास्तदपि पदमपोहन्त्याहमिन्द्रं मुनीन्द्राः ॥ ४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org