________________
अनगारधर्मामृते
शीलः । किं कुर्वन् ? तन्वन् दी|कुर्वन् । किं तत् ? दैन्यं वैवादिना. भिव्यज्यमानं मनस्तापम् । केन? याजाभङ्गेन प्रार्थनाव्यामर्दनेन । कासाम् ? तासामप्यङ्गनानां सुन्दरीणाम् । किं कृत्वा ? संक्रम्य प्रविश्य । क ? हृदि अन्तःकरणे । केन ? नयनपथेनैव दृष्टिमार्गेण न सल्लापादिना । तासां कासाम् ? यासामित्यादि । कुर्वन्ति उच्चारयन्ति । के ? वीरा विक्रान्ताः । कान् ? चाटुकारान् अनुकूलनार्थानि सरागदैन्यवचनानि। कस्यै ? प्रसत्त्यै प्रसादार्थम् । स्वस्मिन् काममुपादयितुमित्यर्थः । कासाम् ? यासाम् । किंविशिष्टा वीराः ? तेपि जगत्प्रतीताः । पुनः किंविशिष्टाः ? त्रिभुवनजयिनस्त्रिजगत्परिभाविनः । किंविशिष्टाः सन्तः ? भ्रूभङ्गेत्यादि । यासामङ्गनानां भ्रूभङ्गो भ्रवस्तिर्यक्पातः । स एव तन्मात्रं, न वचनादिकम् । तदेव प्रदरो बाणः । तस्मादरभरस्त्रासोद्रेकः । तेन प्रक्षरन्तौ समूलं गलन्तौ सत्त्वसारौ येषां ते तथोक्ताः । सत्त्वं मतेर्गुणविशेषः । सारो बलम् ।
विद्याधरत्वमपि धर्मविशेषेण संपद्यते इत्याहविद्येशीभूय धर्माद्वरविभवभरभ्राजमानैर्विमानै,योनि स्वैरं चरन्तः प्रिययुवतिपरिस्पन्दसान्द्रप्रमोदाः । दीव्यन्तो दिव्यदेशेष्वविहतमणिमाद्यद्भुतोत्सृप्तिदृप्ता, निष्क्रान्ताविभ्रमं धिग्भ्रमणमिति सुरान् गत्यहंयून् क्षिपन्ति
क्षिपन्ति निन्दन्ति । के ते ? पुरुषाः । कान् ? सुरान् । किंविशिष्टान् ? गत्यहंयून् मानुषोत्तरपर्वतार हिरपि गमनेन गर्वितान् । कथम् ? इति । किमिति ? धिर निन्दामो वयम् । किं तत् ? भ्रमणं विचरणम् । किंविशिष्टम् ? निष्क्रान्ताविभ्रमं देवीनामनिमेषलोचनतया भ्रूविकारानवतारादेवमुच्यते । किं कुर्वन्तः ? चरन्तो विहरन्तः । क ? व्योनि आकाशे । कथम् ? स्वैरं यथेष्टम् । कैः ? विमानोमयानैः । किंविशिष्टैः? वरविभवभरभ्राजमानैः । वराः श्रेष्ठा विभवा ध्वजमालाकिङ्किणीघण्टाजाल. निकाणगवाक्षप्रेक्षणिकादिव्यपरिमलादयो वरविभवाः । तेषां भरः प्रकर्षः । तेन भ्राजमानैः शोभमानैः । किं कृत्वा ? विद्येशीभूय विद्याधरत्वं प्राप्य । कस्मात् ? धर्मात् । किंविशिष्टाः सन्तः ? प्रियाणां वल्लभानां युवतीनां त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org