________________
प्रथमोऽध्यायः ।
४३
अर्धचक्रिपदमपि सनिदानधर्मानुभावादेव भवतीत्याह- .. छित्त्वा रणे शत्रुशिरस्तदस्तचक्रेण दृप्यन् धरणी त्रिखण्डाम् । बलानुगो भोगवशो भुनक्ति कृष्णो वृषस्यैव विजृम्भितेन ४२
शत्रुः प्रतिवासुदेवः । दृप्यन् दर्पमाविशन् । त्रिखण्डां विजयार्धपर्यन्ताम् । बलानुगो बलभद्रं पराक्रमं वानुगच्छन् । भोगवशः स्त्रग्वनितादिविषयतत्रो भोगो वा नागशरीरं वष्टि कामयते नागशय्याशयनात् । विजृम्भितेन दुःखावसानसुखदायिनानुभावेन, तत्पुण्यस्य मिथ्यात्वानुभावेन नरकान्तफलत्वात् । भुनक्ति रक्षति । कोसौ ? कृष्णो वासुदेवः । काम् ? धरणी पृथ्वीम् । किंविशिष्टाम् ? त्रिखण्डाम् । त्रीणि विजयाादाग्भाति खण्डानि विभागा यस्यास्ताम् । केन ? विजृम्भितेन विरुद्धं जृम्भितं स्वफलदानविलसितं विजृम्भितं तेन । कस्य ? वृषस्यैव पुरा सनिदानतपसा बद्धपुण्यस्य । किंविशिष्टः सन् ? बलानुगः। पुनः किंविशिष्टः ? भोगवशः । किं कुर्वन् ? दृप्यन्। किं कृत्वा ? छित्त्वा कर्तित्वा । किं तत् ? शत्रुशिरः प्रतिवासुदेवमस्तकम् । क? रणे संग्रामे । केन ? तदस्तचक्रेण तेन शत्रुणा हन्तुं क्षिप्तेन रथाड्रेन। __ कामदेवत्वमपि धर्मविशेषफलमेवेत्याहयासां भ्रूभङ्गमात्रप्रदरदरभरप्रक्षरत्सत्त्वसारा, वीराः कुर्वन्ति तेपि त्रिभुवनजयिनश्चाटुकारान् प्रसत्यै । तासामध्यङ्गनानां हृदि नयनपथेनैव संक्रम्य तन्वन्, याजाभङ्गेन दैन्यं जयति सुचरितः कोपि धर्मेण विश्वम् ॥ ४३
जयति वशीकरोति । कोसौ ? कोपि कश्चित्प्रविरलः । कामो वात्र कः । अस्मिन्पक्षे अपीति विश्वमित्यनेन योज्यम् । विश्वमपीत्यर्थः । किं तत् ? विश्वं जगत् । केन ? धर्मेण । किंविशिष्टः सन् ? सुचरितोऽखण्डित
१ प्रतिवासुदेवो जरासिन्धुरत्र । २ पूर्वमेतच्चक्र प्रतिवासुदेवाधीनमासीत् । तत्तेन कृष्णं हन्तुं क्षिप्तं सत् कृष्णमहत्वा तत्स्वाधीनं प्रत्युत जातम् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org