________________
४२
अनगारधर्मामृते
लब्ध्वा । किं तत् ? वपुः शरीरम् । किंविशिष्टम् ? दिव्यं दिवि उपपादशिलायां भवम् । कथम्? मच अन्तर्मुहूर्ततः ।
इन्द्रपदानन्तरभावि चक्रिपदमपि पुण्यविशेषादेवासाद्यते इत्याहउच्चैर्गोत्रमभिप्रकाश्य शुभकृदिक्चक्रवालं करै,-- राक्रामन् कमलाभिनन्दिभिरनुग्रश्नन् रथाङ्गोत्सवम् । दूरोत्सारितराजमण्डलरुचिः सेव्यो मरुत्खेचरै,रासिन्धोस्तनुते प्रतापमतुलं पुण्यानुगुण्यादिनः ॥ ४१ ॥
उच्चैर्गोत्रमिक्ष्वाक्कादिवंशं निषधकुलानि च । अभि निर्भयं समन्ताद्वा प्रकाश्य उद्द्योत्य । शुभेत्यादि । शुभं कृन्तन्ति छिन्दन्ति शुभकृतः प्रतिपक्षभूपाः । तदुपलक्षितं दिक्चक्रवालं ककुम्मण्डलं । पक्षे शुभकृत् प्रजानां क्षेमंकरो दिक्चक्रवालमाक्रामन्निति योज्यम् । करैः सिद्धायैः किरणैश्च । आकामनऽभिभवन् व्यामुवंश्च । कमलाभिनन्दिभिः कमलां लक्ष्मी कमलानि च पद्मान्यभिनन्दयगिरभिवर्धयद्भिः । अनुग्रनन् दीर्घाकुर्वन् । रथाङ्गोत्सवं चक्ररत्नस्योद्धर्ष चक्रवाकप्रीतिं च । राजमण्डलं नृपगणंचन्द्रबिम्ब च । मरुखेचरैवविद्याधरैज्योतिष्कदेवग्रहैश्च । आसिन्धोः समुद्रावधि । पुण्यानुगुण्यात् पुराकृतसुकृतविपाकात् । इनः स्वामी सूर्यश्च । एवं स्फुटीकृतार्थानां पदानामियं घटना । तनुते विस्तारयति । कोसौ ? इनः । कम् ? प्रतापम् । किंविशिष्टम् ? अतुलम् । कस्मात् । पुण्यानुगुण्यात् । क. थम् ? आ अभिव्याप्य । कस्मात् ? सिन्धोः समुद्रात् । हिमवत्कुलाद्रेश्च सिन्धुन दिप्रभवहृदयोगात् सिन्धुशब्देनात्र हिमवान् व्याख्येयः । किं कुर्वन् ? आक्रामन् । किं तत् ? शुभकृदिक्चक्रवालम् । कैः ? करैः । किंविशिटैः ? कमलाभिनन्दिभिः। किं कृत्वा ? प्रकाश्य । किं तत् ? उच्चै! त्रम् । कथम् ? अभि । पुनः किं कुर्वन् ? अनुग्रश्नन् । कम् ? रथाङ्गोत्सवम् । पुनः किंविशिष्टः ? दूरोत्सारितराजमण्डलरुचिः । दूरमत्यर्थमुत्सारिता राजमण्डलस्य रुचिर्दीप्तिरिच्छा च येन स एवम् । पुनरपि किंविशिष्टः ? सेव्यः। कैः ? मरुत्खेचरैः । मरुतश्च खेचराश्चेति द्वन्द्वः । श्लेषपक्षे यथास्वं वितळ स्वबुद्ध्या योज्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org