________________
प्रथमोऽध्यायः।
.........maaamananmarriane
कृत्य । कान् ? तान् तथाविधानर्थान् । कस्मात् ? ततो दूरासन्नदेशात् । अथवा रमयति तन्नरम् । किं कृत्वा ? नीत्वा प्रापय्य । कम् ? तदुद्देशं तथाविधार्थप्रदेशम् । कथम् ? स्वयमात्मना । अपिर्विस्मये ।
एवं शुभपरिणामवैचित्र्यवशादुपात्तस्य पुण्यविशेषस्य सामान्येनात्र फलातिशयवैचित्रीं निरूप्येदानीं विशेषेणामुत्रिकीं तां स्तोतुमुत्तरप्रबन्धमाह, तत्रादौ तावत्ता स्वालोंकी विकत्थतेयदिव्यं वपुराप्य मछु हृषितः पश्यन् पुरा सत्कृतं, द्राग्बुद्धावधिना यथास्वममरानादृत्य सेवाहतान् । सुप्रीतो जिनयज्वनां धुरि परिस्फूर्जनुदारश्रियां, स्वाराज्यं भजते चिराय विलसन् धर्मस्य सोनुग्रहः ॥४०॥
भवति ? कोसौ ? स आगमप्रसिद्धोऽनुग्रह उपकारः । कस्य ? धर्मस्य सम्यक्तपश्चरणानुरागजस्य पुण्यस्य । यत्किम् ? यद्भजतेऽनुभवति । किं तत् ? राज्यमाधिपत्यम् । क ? स्वः स्वर्गे सौधर्मकल्पे । कथम् । चिराय दीर्घकालम् । किं कुर्वन् ? विलसन् शच्यादिदेवीविलाससक्तः सन् । पुनः किं कुर्वन् ? परिस्फूर्जन् परितः स्फुरत्प्रभावो भवन् । क? धुरि । केषाम् ? जिनयज्वनामहत्पूजकानामीशानादिशकाणाम् । किंविशिष्टानाम् ? उदारश्रियाम् । उदारा महर्द्धिकसुरचक्रचेतश्चमत्कारित्वादतिशयवती श्रीरणिमाद्यष्टगुणैश्वर्यसंपद् येषां त एवम् । किंविशिष्टः सन् ? सुप्रीतः सुष्टु मुदितः । किं कृत्वा ? आदृत्य । कान् । अमरान प्रतीन्द्रसामानिकादिदेवान् । किंविशिष्टान् ? सेवाहतान् सेवितुं प्रवृत्तान् । कथम् ? यथास्वम् । यो यस्य नियोगस्तं तत्रैव प्रत्यवस्थाप्येत्यर्थः । किं कृत्वा ? बुद्धा ज्ञात्वा । किं तत् ? पुरा सत्कृतं पुरा पूर्वभवे सता शुभपरिणामेन कृतमुपार्जितं स्वयं सुकृतम् । केन ? अवधिना तत्कालोत्पन्नातीन्द्रियज्ञानविशेषेण । कथम् ? द्राक सविस्मयवितकावलोकनानन्तरमेव । किं कुर्वन् ? पश्यन् । समन्ताद्देवीदेवाप्सरोनिकरा. नालोकयन् । कथंभूतो भूत्वा ? हृषितो विस्मितः । किं कृत्वा ? आग्य
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org