________________
अनगारधर्मामृते
साधयितुं स्वयं शक्नोतीत्यर्थः । ननु च पुण्यवन्तोपि कल्पवृक्षादिद्वारेणाभ्युदयमनुभवन्तः श्रूयन्ते । तत्कथमेतद् घटते इत्याह-यस्येत्यादि । भवन्ति । के ? सुरद्रमाः कल्पवृक्षा वचनेन याचितं मद्यतूर्यादिभोगोपभोगाङ्गदातारः पृथवीसारमया वृक्षविशेषाः । उक्तं चार्षे
न वनस्पतयोप्येते नैव दिव्यैरधिष्टिताः।
केवलं पृथिवीसारास्तन्मयत्वमुपागताः॥ किंविशिष्टाः ? भृत्याः । कस्य ? यस्य धर्मस्य । तथा भवति । कोसौ? चिन्तामणिश्चिन्तितार्थप्रदो रोहणाद्रिप्रभवो रत्नविशेषः । किं विशिष्टः । कर्मकरः क्रयक्रीतो दासः । कस्य ? यस्य । तथा भवति । कासौ ? कामधेनुर्वान्छितार्थप्रदा देवगवी । किंविशिष्टा? किंकरा किंकरणशीला दासी । कस्य ? यस्य । यथाकथंचित्पूर्वपुण्यमुदीर्ण स्वप्रयोक्तारमनुगृह्णातीत्याह
प्रियान् दूरेप्याञ्जनयति पुरो वा जनिजुषः, करोति स्वाधीनान् सखिवदथ तत्रैव दयते । ततस्तान्वानीय स्वयमपि तदुद्देशमथवा,
नरं नीत्वा कामं रमयति पुरापुण्यमुदितम् ॥ ३९ ॥ जनयति उत्पादयति । किं तत्कर्तृ ? पुरापुण्यं प्राकृतं सुकृतम् । किंविशिष्टम् ? उदितं स्वफलदानायोद्यतम् । कान् ? अर्थान् स्पर्शनादीन्द्रियभोग्यान् भावान् । किंविशिष्टान् ? प्रियान् प्रीणनक्षमान् । क ? दूरे द्वी. पान्तरादौ अपिशब्दादासन्ने च । वा अथवा करोति । किं तत् ? पुरापुण्य. मुदितम् । कान् ? प्रियानर्थान् । किं विशिष्टान् ? स्वाधीनान स्वभर्तुरायत्तान् । किंविशिष्टान् सतः ? जनिमुत्पत्तिं जुषन्ते सेवन्ते जनिजुष उत्पनान् । कथम् ? पुरः स्वभोक्तुरुत्पत्तेः प्रागेव । अथ अथवा। दयते रक्षति । किं तत् ? पुरा पुण्यमुदितम् । कान् ? प्रियानर्थान् पुरोजनिजुषः । क ? तत्रैव दूरासनदेशे । किंवत् ? सखिवद् मित्रमिव । एतत्पूर्वेणापि योज्यम् । वा अथवा रमयति रतिं नयति । किं तत् ? पुरापुण्यमुदितम् । कम् ? नरं पुरुषम् । कथम् ? कामं यथेष्टम् । किं कृत्वा ? आनीय प्रत्यासन्नी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org