________________
प्रथमोऽध्यायः।
पतेः । किंनाम्नी ? विशल्या। किंविशिष्टा ? जगति लोके प्रतीतः ख्यातो महिमा माहात्म्यं यस्याः सा जगत्प्रतीतमहिमा । यया किम् ? यया कर्तृभूतया विशल्यीकृतोऽत्यन्तप्रियस्वानुजलक्ष्मणमरणातङ्काद्विमोचितः । कोसौ ?स रामोविश्वशरणं विश्वशरणत्वेन प्रसिद्धो दाशरथिरित्यर्थः। किं कृत्वा ? प्रास्य निरस्य । काम् ? शक्ति शस्त्रविशेषम् । कस्मात् ? उरसो वक्षस्थलात् । कस्य ? लक्ष्मणस्य सौमित्रेः। कथम्? द्राग झटिति स्वदर्शनानन्तरमेव । किंविशिष्टाम् ? प्रणिहितां प्रयुक्ताम् । केन ? राक्षसचक्रिणा रावणेन । कथं कृत्वा ? क्रूरं निर्दयम् । एषा कथा रामायणे द्रष्टव्या । एवमन्या अपि कथा यथास्वं निरूप्याः । पुण्योदयवर्तिनां कर्मायासं प्रत्यस्यति
विश्राम्यत स्फुरत्पुण्या गुडखण्डसितामृतैः ।
स्पर्द्धमानाः फलिष्यन्ते भावाः स्वयमितस्ततः ॥३७॥ हे स्फुरत्पुण्याः स्फुरन्ति निष्प्रतिबन्धं स्वसाध्यानि साधयन्ति । पुण्यानि येषां त एवम् । विश्राम्यत विगतस्वार्थसाधनक्लेशायासा भवत । के ते? ययम् । कुत इत्याह-यतः फलिष्यन्ते स्वयं युष्मद्व्यापारमन्तरेणैव निष्पत्स्यन्ते । के ते? भावाः पदार्थाः । कथम् ? इतस्ततः समन्तात् । यत्र तत्रेत्यर्थः । किं कुर्वाणाः ? स्पर्द्धमाना आत्मानमुत्कृष्टत्वेन संभावयन्तः । सदृशा भवन्त इत्यर्थः । कैः सह ? गुडखण्डसितामृतैः । सिता शर्करा । गुडश्च खण्डश्च सिता चामृतं चेति द्वन्द्वः । कानिचिद्धि पुप्यानि गुडसमानरसानि परिणामविशेषाज्जीवो बध्नाति; कानिचिच्च खण्डादितुल्यविपाकानि । तानि च यथाकालं यथोपक्रमं च विपक्ष्यमाणानि ताहक्स्वादरम्याणि स्वफलानि संपादयन्ति । कल्पवृक्षादयोपि धर्माधीनवृत्तयः इत्युपदिशति
धर्मः क नालंकर्मीणो यस्य भृत्याः सुरद्रुमाः।
चिन्तामणिः कर्मकरः कामधेनुश्च किङ्करा ॥ ३८॥ क? कस्मिन्नभ्युदयनिःश्रेयसलक्षणे स्वकार्ये साध्ये न भवति । कोसौ ? धर्मः । किंविशिष्टः ? कर्मणेऽलमलंकर्मीणः कर्मक्षमः । सर्वं स्वसाध्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org