________________
३८
अनगारधर्मामृते
आज्ञैश्वर्यमुपागतस्त्रिजगतीजाग्रद्यशश्चन्द्रमा, देहेनैव पृथक् सुतः पृथुवृषस्सैकोपि लक्षायते ॥ ३५ ॥ लक्षायते लक्षमिवाचरति । शतसहस्रपुत्रसाध्यं करोतीत्यर्थः । कोसौ ? सुतः पुत्रः । कस्य ? पृथुवृषस्य विपुलपुण्यस्य पुंसः । किंविशिष्टोपि ? एकोपि । किंविशिष्टः सन् ? पृथग् भिन्नः । केन ? देहेनैव न कोलीन्यनयविनयादिना । पित्रा समानगुण इत्यर्थः । किंविशिष्टः सन् ? त्रिजगतीत्यादि । तिसृषु जगतीषु त्रिषु लोकेषु जाग्रद् विजृम्भमाणो यज्ञश्चन्द्रमा इव शुक्लत्वालादकत्वगुणयोगाद यशश्चन्द्रमा यस्य स त्रिजगतीजाग्रद्यशश्चन्द्र. माः । कथंभूतो भूत्वा ? उपागतः। प्राप्तः । किं तत् ? आज्ञैश्वर्यम् अनुलङ्घयशासनस्वम् । किं कुर्वन् ? बध्नन् यन्त्रयन् । कान्? वैरिणः शत्रून् । क ? रणे संग्रामे । किंविशिष्टोपि ? सितोपि बद्धोपि । कया ? रमया ल.
या। प्रक्रमाद्वैरिणामेव । केन ? दोष्पाशेन भुजरज्ज्वा । कस्मात् ? बलाद हठात् । यः स्वयं बद्धः स कथं परान् बनातीति विस्मयार्थेनापिशब्देन द्योत्यते । पुनः किं कुर्वन् ? स्फुरन विचारकचेतसि चमत्कुर्वन् । क? धुरि अग्रे । केषाम् ? तजषां सद्विद्याविभवभाजाम् । कैः ? सद्वि. द्याविभवैः। सत्यः समीचीना विद्या आन्वीक्षिक्यादयः । तासां विभवाः क्षोदक्षमत्वयथास्वकार्यकारित्वादिगुणसंपदः सद्विद्याविभवास्तैः । किंविशिष्टैः? गुरूपास्त्यांतः सदुपाध्यायसेवया स्वसारकृतैः ।। __गुणसुन्दरा दुहितरोपि पुण्यादेव भवन्तीति दृष्टान्तेन स्पष्टयतेकन्यारत्नसृजां पुरोऽभवदिह द्रोणस्य धात्रीपतेः, पुण्यं येन जगत्प्रतीतमहिमा सृष्टा विशल्यात्मजा । क्रूरं राक्षसचक्रिणा प्रणिहितां द्राग्लक्ष्मणस्योरसः, शक्तिं प्रास्य यया स विश्वशरणं रामो विशल्यीकृतः ॥३६॥ __ अभवत्संजातम् । किं तत् ? पुण्यम् । कस्य ? धात्रीपते राज्ञः । किंनाम्नः, द्रोणस्य द्रोणघनसंज्ञस्य । कथम् ? पुरः प्रधानं मुख्यम् । केषाम् ? कन्यारत्नसृजां स्फुरत्प्रभावकुमारीजनकानां पुण्यानाम् । क ? इह लोके । येन किम् ? येन सृष्टा । कासौ ? आत्मजा पुत्री । कस्य ? द्रोणधात्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org