________________
प्रथमोऽध्यायः ।
अधुना बालारमजलीलावलोकनसुखं कृतपुण्यस्य प्रकाश्यतेक्रीत्वा वक्षोरजोभिः कृतरभसमुरश्चन्दनं चाटुकारैः, किंचित्संतl कर्णौ द्रुतचरणरणघुघुरं दूरमित्त्वा । क्रीडन् डिम्भैः प्रसादप्रतिघधनरसं सस्मयस्मेरकान्ता,हक्संबाधं जिहीते नयनसरसिजान्यौरसः पुण्यभाजाम् ॥३४॥
जिहीते संचरति । दृष्टिगोचरो भवतीत्यर्थः । कोसौ ? औरस आत्मजः। कानि ? नयनसरसिजानि । नयनानि सरसिजानि कमलानीव लोहितादिगुणयोगात् । केषाम् ? पुण्यभाजां सुकृतभोक्तॄणाम् । कथं कृत्वा ? सस्मयस्मेरकान्ताहक्संबाधम् । समयास्तादृक्पुत्रयोगात् सगर्वा आस्मोत्कर्षसंभाविन्यः स्मेरा ईषद्धसनशीलवदनाः कान्ताः प्रियाः । तासां दृशो दृष्टयो नेत्रव्यापाराः । ताभिः संबाधं संकटं यथा भवति । कान्ताहशोप्यौरसोपि युगपन्नयनयोः संचरंतीत्यर्थः । किं कुर्वन्नौरसस्तथा पितृनेत्रपद्मानि संचरतीत्याह-क्रीडन् यथेष्टं चेष्टमानः । कैः सह ? डिम्भैः शिशुसवयोभिः । कथं कृत्वा ? प्रसादप्रतिघधनरसम् । कदाचित्प्रसादेन परितोषेण कदाचिच्च प्रतिघेन कोपेन धनः सान्द्रो रसो यत्र क्रीडनकर्मणि तदेवम् । किं कृत्वा ? इत्त्वा गत्वा । किं तत् ? दूरं विप्रकृष्टम् । कथं कृत्वा ? द्रुतचरणरणधुर्घरम् । दुतयोः शीघ्रगमनयोश्चरणयोः पादयो रणन्तः सिञ्जाना घुघुरा घर्घरिका यत्रायनकर्मणि तदेवम् । किं करवा संतर्य सम्यक् प्रीणयित्वा। कौ ? कर्णी श्रवसी । प्रकृतत्वात्पुण्यभाजामेव । कैः ? चाटुकारैः प्रियवाक्यैः । कियत् ? किंचित् । किं कृत्वा ? क्रीत्वा पणयिस्वा स्वीकृत्य । किं तत् ? उरश्चन्दनं वक्षश्च. र्चाश्रीखण्डम् । कैः ? वक्षोरजोभिः पांशुक्रीडासंक्रान्तनिजोरःपांशुमिः। कथं कृत्वा ? कृतरभसं लिहितोत्सुक्यम् । आम्रफलादिकमपि क्रीडानः शिशुरौत्सुक्यं भजत इति जातिच्छायोक्तिरत्र प्रकाश्या ।
पुत्रस्य कौमारयौवनोचितां गुणसंपदं पुण्यवतः शंसतिसद्विद्याविभवैः स्फुरन्धुरि गुरूपास्त्यर्जितैस्तज्जुषां, दोष्पाशेन बलासितोपि रमया बनन् रणे वैरिणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org