________________
अनगारधर्मामृते-
कृतपुण्येष्वसंभवात् । यदि वा संसारे सुखदुःखे प्रकृत्या सान्तरे एव ।
तथा च लोकाः पठन्ति --
३६.
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । सुखं दुःखं च मर्त्यानां चक्रवत्परिवर्तते ॥ इति ।
एवं युवतिगतां धन्यस्य गुणसंपदं प्रतिपाद्य पुरन्ध्रीगतां तां प्रदर्शयतिव्यालोलनेत्रमधुपाः सुमनोभिरामाः, पाणिप्रवालरुचिराः सरसाः कुलीनाः ।
आनृण्यकारणसुपुत्रफलाः पुरन्ध्यो,
धन्यं व्रतत्य इव शाखिनमाखजन्ते ॥ ३३ ॥
सुमनसः सुचित्ताः पुष्पाणि च । सरसाः सानुरागाः सार्द्राश्च । कुलीनाः कुलजा भूमिस्पृष्टाश्च आनृण्यमपुत्रः पुमान् पितॄणामृणभाजनमिति अत्रोपजीव्यं शाखिनं वृक्षं बहुगोत्रविस्तरं च । आस्वजन्ते अभिलाषेणालिङ्गन्ति । काः ? पुरन्ध्यः कुटुम्बिन्यः । कम् ? धन्यम् ? किंविशिष्टम् ? शाखिनम् । किंविशिष्टास्ताः ? व्यालोलनेत्रमधुपाः । विविधमीषल्लोलानि चञ्चलानि नेत्राणि मधुपा इव यासां ता एवम् । पक्षे व्यालोलनेनाणीव मधुपा यासाम् । तथा शोभनानि प्रसन्नानि मनांसि यासां ताः सुमनसः । ताश्च ता अभिरामाश्च रम्याः सुमनोभिरामाः । पक्षे सुमनोभिः पुष्पैरभिरामाः । तथा पाणिप्रवालरुचिराः । पाणयः करा: प्रवालानि पल्लवा इवाताम्रकोमलत्वात् । पक्षे पाणय इव प्रवालानि पाणिप्रवालानि । तै रुचिरा मनोहराः तथा तथा सरसाः कुलीनाश्च । एतौ उपरि व्याख्यातौ । तथा आनृण्यकारणसुपुत्रफलाः । य उत्पन्नः पुनीते वंश स पुत्रः । पुत्राः फलानीव जनन्या गौरव हेतुत्वात्पुत्रफलानि । शोभनानि यथावस्थं गुणसंपन्नानि पुत्रफलानि सुपुत्रफलानि । आनृण्यकारणानि स्वामिनामृणच्छेदकानि सुपुत्रफलानि यासां ता एवम् । का इव ? व्रतत्य इव यथा | आस्वजन्ते । काः ? व्रतत्यो वल्यः । कम् ? शाखिनम् ? किंविशिष्टम् ? धन्यं कृतपुण्यम् । शेषं पूर्ववद्योज्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org