SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । ३५ दयः । सौन्दर्य चारुता । चर्या ब्राह्ममुहूर्तोत्थानादिराचारः । आदिशब्दा प्रियंवदत्वमित्यादयः । विक्रमश्च कलाश्च सौन्दर्य च चर्या चेति द्वन्द्वे ता आदयो येषां त एवम् । किंविशिष्टैः ? पित्र्यैर्मातापितृभ्यामागतैः । अभिजनैरित्यर्थः ः । न केवलं पित्र्यैवैनयिकैश्च शिक्षाप्रभवैः । आहार्यैरित्यर्थः । तत्र विक्रमसौन्दर्यप्रियंवदत्वादयः सहजाः कलाचर्यामैध्यादय आहार्या इति विभागः । पुनः किंविशिष्टैः ? गोष्ठीनिष्ठरसैः । गोष्ट्यां प्रीत्या मिथो भाषणे नियतं तिष्ठतीति गोष्ठीनिष्ठो रसो हर्षो येषां तैः । लक्षणया, सदा समुदितैरित्यर्थः । पुनः किंविशिष्टैः ? प्राथ्यैः स्पृहणीयैः । केषाम् ? नृणां पुंसाम् । कथम् ? पृथगपि एकैकशः । किं पुनः सामस्त्येनेत्यपिशब्दार्थः ॥ एवं पुण्यवतः स्वगतां गुणसंपत्ति प्रदर्श्य कान्तागतां लोकद्वयेन प्रकाशयति साध्वीस्त्रिवर्गविधिसाधनसावधानाः, कोपोपदंशमधुरप्रणयानुभावाः । लावण्यवारितरगात्रलताः समान,सौख्यासुखाः सुकृतिनः सुदृशो लभन्ते ॥ ३२ ॥ लभन्ते प्राप्नुवन्ति । के ? सुकृतिनो धन्याः । का ? सुदृशो युवतीः । किंविशिष्टाः ? साध्वीः पतिव्रताः सुलोचनासुतारासीताद्रौपदीप्रायाः । पुनः किंविशिष्टाः ? श्रीत्यादि । त्रिवर्गस्य धर्मार्थकामानां विधिना शास्त्रोक्तविधानेन साधने संपादने सावधाना अप्रमत्तवृत्तयस्त्रिवर्गविधिसाधनसावधानाः । पुनरपि किंविशिष्टाः ? कोपो बाह्यरोष उपदंशो व्यञ्जनविशेष इव प्ररोचना हेतुत्वात् कोपोपदेशः तेन मधुराः स्वादवः प्रणयस्य प्रेम्णोनुभावाः कार्यभूताः कटाक्षस्मितसनर्मवक्रवचनादयो भावा यासां ताः कोपोपदंरामधुरप्रणयानुभावाः । पुनरपि किंविशिष्टाः ? लावण्यं कान्त्यतिशयो वारि जलमित्र व्यापकत्वाल्लावण्यवारि । तत्र तरन्ति लवन्ते इव लावण्यवारितरा गात्रलताः प्रशस्तानि कृशानि वा शरीराणि यासां ता लावण्यवारितरगात्रलताः । पुनरपि किंविशिष्टाः ? समान सौख्यासुखाः । समाने मत्या तुल्ये सौख्यासुखे यासां ता एवम् । पतिसुखे सुखिन्यस्तद्दुःखे दुःखिन्य इत्यर्थः । दुःखं चात्र प्रणयभङ्गादिकृतमेव, न व्याध्यादिकृतं, तस्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy