________________
अनगारधर्मामृते
किंविशिष्टः ? आपूरिताशाचक्रः । आ समन्तात्पूरितं पूर्ण फलनिर्भरीकृतमाशानां चक्र संघातो येन स एवम् । पुनः किंविशिष्टः ? सज्जीकृतरसभरः सज्जीकृत उपभोगाय प्रगुणितो रसानां भरोतिशयो येन स एवम् । कैः ? स्वच्छभावाम्बुपूरैः।भावा अम्बूनि जलानीव रसभरनिमित्तत्वा. न् । स्वच्छानां सुप्रसन्नानां भावाम्बूनां पूराः प्रवाहाः स्वच्छभावाम्बुपूरास्तैः । पुनरपि किंविशिष्टः ? नानाशक्तिप्रसवविसरः। शक्तयः प्रसवाः पुष्पाणीव फलजनकत्वात् शक्तिप्रसवाः। तेषां विसराः शक्तिप्रसवविसराः । नानाप्रकाराः शक्तिप्रसवविसरा यस्य स एवम् । पुनः किंविशिष्टः ? साधुपान्थौघसेव्यः । साधवस्त्रैवर्गिकाः पान्था इव नित्यं मार्गचारित्वात् साधुपान्थाः। तेषामोधाः संघाताः तैः सेव्य उपास्यः ॥ सहभाविवान्छितार्थफलस्तोमं पुण्यस्य लक्षयतिपित्र्यैवैनयिकैश्च विक्रमकलासौन्दर्यचर्यादिभि,
र्गोष्ठीनिष्ठरसैर्नृणां पृथगपि प्रार्थैः प्रतीतो गुणैः । सम्यकस्निग्धविदग्धमित्रसरसालापोल्लसन्मानसो, धन्यः सौधतलेऽखिलतुमधुरे कान्तेक्षणैः पीयते ॥३१॥ पीयतेऽत्यन्तमालोक्यते। कोसौ ? धन्यः पुण्यवान् ? कैः ? कान्तेक्षणैः । कान्ताः शुचिपौराचाररताश्चरित्रशरणार्जवक्षमोपेता इत्येवंलक्षणाः स्वकीयनायिका मुग्धमध्यप्रगल्भावस्थाः कान्तानामीक्षणानि लोचनानि कान्तेक्षणानि तैः । व स्थितः? सौधतले राजगृह शिखरे। किंविशिष्टे? अखिलर्तुमधुरे अखिलेषु सर्वेषु ऋतुषु वसन्तादिषु मधुरे करणान्तःकरणप्रीणनप्रवणे। किंविशिष्टः सन् ? सम्यगित्यादि । सम्यञ्चि निर्व्याजमनोवृत्तीनि स्निग्धानि प्रेमाविष्टानि विदग्धानि रसिकानि मित्राणि च सम्यक्. खिग्धविदग्धमित्राणि । तेषां सरसाः सनर्मसद्भावपेशला आलापा आभाषणानि । तैरुल्लसच्छ्रवणानन्दोन्मुखं भवन्मानसं मनो यस्य स एवम् । पुनः किंविशिष्टः ? प्रतीतः प्रतीयमानः । “मतिबुद्धिपूजार्थेभ्यः क्तः" इति सं. प्रति कः । केषाम् ? नृणाम् । कैः ? गुणैरुपकारकधमैः । किंविशिष्टैः ? विक्रमेत्यादि । विक्रमः शक्त्यतिशयः । कला लिखितपठितपत्रच्छेदगीता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org