SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः। ५५ कालशम्बरपुत्रवर्गपराजययुक्तेन । किं कृत्वा ? खगेन्द्रात्मजीकृत्य कालशम्बरनाम्नो विद्याधरेन्द्रस्यानात्मजं सन्तमात्मजं कृत्वा । किंविशिष्टः सन् ? आक्रान्त उपरि पीडितः । केन ? असुरेण हेमरथराजचरेण ज्वलितधू. मशिखिनाम्ना दैत्येन । कया ? शिलया दृषदा । किंविशिष्टया ? रुन्द्रया महत्या । क ? वने महाखदिराटव्याम् । किं कृत्वा ? हृत्त्वा प्रच्छन्नं गृहीत्वा । कया ? क्रुधा क्रोधेन । अत्र हेतुमाह-प्राग्विगुणो यतः प्राङ्मधुराजभवे विगुणो वल्लभाहठहरणादपकर्ता । कियदवस्थोसौ ? षडहो. द्भवः षड्दिनजन्मा । किमतिशयोसौ ? सौभागिनेयः सुभगाया इतरकान्तापेक्षयाऽतिवल्लभाया रुक्मिण्या अपत्यम् । कस्य ? असुरभिदो दैत्यमथनस्य वासुदेवस्य । ननु मन्त्रादिप्रयोगोपि विपन्निवारणाय शिष्टैर्व्यवह्रियते । तत्कथं भवतां तत्प्रतीकारे पुण्यस्यैव सामर्थ्यप्रकाशनं न विरुध्यते इत्यत्राह यश्चानुश्रूयते हर्तुमापदः पापपक्रिमाः। उपायः पुण्यसद्धन्धुं सोप्युत्थापयितुं परम् ॥ ५९ ॥ यश्च यः पुनरनुश्रूयते आप्तोपदेशपारम्पर्येणाकर्ण्यते व्यवहर्तृजनैः । कोसौ ? उपायः सिद्धमन्त्रादिप्रयोगः । किं कर्तुम् ? हतु निराकर्तुम् । काः? आपदः । किंविशिष्टाः ? पापपक्रिमाः पापपाकेन निर्वृत्ताः । सोपि किं पुनराप्ताभासोपदिष्टः शिष्टैर्व्यवह्रियते। किं कर्तुम् ? उत्थापयितुमुद्यमयितुम् । स्वव्यापारे प्रवर्तयितुमित्यर्थः । कम् ? पुण्यसद्वन्धुं सुकृतनिर्व्याजबान्धवम् । कथम् ? परं केवलम् ।। पुण्यस्योदयाभिमुखत्वे तद्विमुखत्वे च द्वयेपि सति सुखसाधनानां वैफल्यं दर्शयति पुण्यं हि संमुखीनं चेत्सुखोपायशतेन किम् । न पुण्यं संमुखीनं चेत्सुखोपायशतेन किम् ॥ ६० ॥ हि यस्माच्चेद् यद्यस्ति । किं तत् ? पुण्यम् । किंविशिष्टम् ? संमुखीनमुदयाभिमुखम् । स्वफलदानोद्यतमित्यर्थः । तदा किं कार्यम् । केन ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy