________________
अष्टमोऽध्यायः।
अपि च,
जिनेन्द्रान्नौमि तान्येषां शारीराः परमाणवः। विद्युतामिव मुक्तानां स्वयं मुञ्चन्ति संहतिम् ॥ लक्ष्माणि श्रीवृक्षादिलक्षणानि वृषभादिलान्छनानि च । तत्राष्टोत्तरशतं लक्षणानि, व्यअनानि नवशतान्यार्षे पञ्चदशे पर्वणि । तानि श्रीवृक्षशङ्खाब्जे. त्यादिना व्यञ्जनान्यपराण्यासन् शतानि नवसंख्यया इत्यन्तेन प्रबन्धेनोक्तानि वेदितव्यानि । चिह्नानि यथा
गौर्गजोश्वः कपिः कोकः सरोजं स्वस्तिकः शशी। मकरः श्रीयुतो वृक्षो गण्डो महिषशूकरौ॥ सेधा वज्रं मृगश्छागः पाठीनः कलशस्तथा। कच्छपश्चोत्पलं शंखो नागराजश्च केशरी॥ इत्येतान्युक्तदेशेषु लाञ्छनानि प्रयोजयेत् । गुणा निःस्वेदत्वादयो वर्णादयश्च । निःस्वेदत्वादिमुखेन यथानिःस्वेदत्वमनारतं विमलता संस्थानमाद्यं शुभं, तद्वत्संहननं भृशं सुरभिता सौरूप्यमुच्चैः परम् । सौलक्षण्यमनन्तवीर्यमुदितिः पथ्या प्रियाऽसृक् च यः,
शुभ्रं चातिशया दशेह सहजाः सन्त्वहंदङ्गानुगाः॥ वर्णमुखेन यथा
श्रीचन्द्रप्रभनाथपुष्पदशनौ कुन्दावदातच्छवी, रक्ताम्भोजपलाशवर्णवपुषौ पद्मप्रभद्वादशौ। कृष्णौ सुव्रतयादवौ च हरितौ पार्श्वः सुपार्श्वश्च वै,
शेषाः सन्तु सुवर्णवर्णवपुषो मे षोडशाऽधच्छिदे ॥ उच्छ्राय उत्सेधः । तन्मुखेन यथानाभेयस्य शतानि पञ्च धनुषां मानं परं कीर्तितं, सद्भिस्तीर्थकराष्टकस्य निपुणं पश्चाशदूनं हि तत् । पश्चानां च दशोनकं भुवि भवेत्पश्चोनकं चाष्टके, हस्ताः स्युर्नवसप्त चान्त्यजिनयोर्येषां प्रमा नौमि तान् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org