________________
५६८
अनगारधर्मामृते
इत्यादिस्तवः । 'चउवीसं तित्थयरे' इत्यादि । 'ऋषभोऽजितनामा च' इत्यादिवा । स्थापनास्तवमाहकृत्रिमाकृत्रिमा वर्णप्रमाणायतनादिभिः । व्यावर्ण्यन्ते जिनेन्द्रार्चा यदसौ स्थापनास्तवः ॥४०॥ असौ स्थापनास्तवः स्यात् । यत्किम् ? यद्यावर्ण्यन्ते स्तूयन्ते । काः ? जिनेन्द्रार्चाः । किंविशिष्टाः ? कृत्रिमाकृत्रिमाः । करणेन निर्वृत्ताः कृत्रिमाः तद्विपरीता अकृत्रिमाः । कृत्रिमाश्चाकृत्रिमाश्वेति द्वन्द्वः कैावर्ण्यन्ते ? वर्णप्रमाणायतनादिभिः। वर्णो रूपम् । प्रमाणमुत्सेधः। आयतनं चैत्यालयः। आदिशब्देन संस्थानदीप्त्यादिग्रहः । वर्णश्च प्रमाणं चायतनं च वर्णप्रमाणायतनानि तान्यादयो येषां ते वर्णादयस्तैः । जिनेन्द्रार्चा इति जिनेन्द्राणां तीर्थकराणां चतुर्विशतेरपरिमितानां वा अर्चाः प्रतिमाः । तत्र चतुविशतेः कृत्रिमा इतरेषां चाकृत्रिमा इति योज्यम् । उक्तं चाचारटीकायां-चतुर्विंशतितीर्थकराणामपरिमितानां वा कृत्रिमाकृत्रिमास्थापनानां स्तवनं चतुर्विंशतिस्थापनास्तव इति । अथवा अकृत्रिमा इत्युपचारादुभयत्रापि योज्यम् । द्रव्यस्तवमाहवपुर्लक्ष्मगुणोच्छ्रायजनकादिमुखेन या। लोकोत्तमानां संकीर्तिश्चित्रो द्रव्यस्तवोस्ति सः ॥४१॥ सोस्ति द्रव्यस्तवः । किंविशिष्टः ? चित्रो नानाप्रकार आश्चर्यभूतो वा। या किम् ? या संकीर्तिः सम्यकीर्तनम् ।केषाम् ? लोकोत्तमानाम् । केन ? वपुर्लक्ष्मगुणोच्छ्रायजनकादिमुखेन । वपुश्च लक्ष्माणि च गुणाश्चोच्छ्रायश्च जनकादयश्च । तेषां मुखेन द्वारेणोपायेन प्राधान्येन वा । वपुर्मुखेन यथा
सनवव्यञ्जनशतैरष्टाग्रशतलक्षणैः। निजि जगदानन्दि जयतार्हतां वपः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org