________________
अष्टमोऽध्यायः।
"श्रीमान् स्वयंभूर्वृषभः शंभवः शंभुरात्मभूः । स्वयंप्रभः प्रभुर्भोक्ता विश्वभूरपुनर्भवः ॥” इत्यादिना । "शुभंयुः सुखसाद्भूतः पुण्यराशिरनामयः।
धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः॥" इत्यन्तेन प्रबन्धेनोक्तानि प्रतिपत्तव्यानि । अन्वर्थमर्थमनुगतम् । तद्यथाश्रीरन्तरङ्गा अनन्तज्ञानादिलक्षणा बहिरङ्गा च समवसरणाष्टमहाप्रातिहार्यादिस्वभावा लक्ष्मीरस्यातिशयेन हरिहराद्यसंभवित्वेनास्तीति श्रीमान् । तथा स्वयं परोपदेशमन्तरेण मोक्षमार्गमवबुद्ध्यानुष्ठाय चानन्तचतुष्टयरूपतया भवतीति स्वयंभूः । तथा वृषेण धर्मेण भातीति वृषभः। तथा शं सुखं भवत्यस्माद्भव्यानामिति शंभवः । एवमन्येषामपि यथाम्नायमन्वर्थता चिन्त्या । तथा हि,
ध्यानद्रुघणनिर्मिनघनघातिमहातरुः। अनन्तभवसंतानजयादासीरनन्तजित् ॥ त्रैलोक्यनिर्जयावाप्तदुर्दर्पमतिदुर्जयम् ।
मृत्युराजं विजित्यासीजिन मृत्युञ्जयो भवान् ॥ इत्यादि । व्यावहारिकत्वं च नामस्तवस्य स्तुत्यस्य परमात्मनो वाचामगोचरत्वात् । तथा चोक्तमाणे
गोचरोपि गिरामासां त्वमवाग्गोचरो मतः। स्तोतुस्तथाप्यसंदिग्धं त्वत्तोभीष्टफलं भवेत् ॥ तथा,
संज्ञासंज्ञद्वयावस्थाव्यतिरिक्तामलात्मने । नमस्ते वीतसंज्ञाय नमः क्षायिकदृष्टये ।। वीरान्तानामिति वृषभादिवर्धमानान्तानां तीर्थकराणां चतुविशतेः । सामान्य विवक्षया चायं नामस्तवश्चतुर्विशतेरपि तीर्थकृतां श्रीमदादिसंज्ञावाच्यत्वाविशेषात् । विशेषापेक्षया तु वृषभादिचतुर्विशतेः पृथङ्नानां निर्वचनमुच्चारणं वा नामस्तवः । यथा सर्वभक्तिभाक् 'थोस्लामि'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org