________________
अनगारधर्मामृते
कालानां च गतिस्थित्यवगाह हेतुत्ववर्तनादयः । क्षेत्रपर्याया रत्नप्रभाजम्बूद्वीपर्जुविमानादयः । भवानुभाव आयुषो जघन्यमध्यमोत्कृष्टविकल्पाः । भावपरिणामोऽसंख्येयलोकप्रमाणः शुभाशुभजीवभावः कर्मादानपरित्यागसमर्थः इति । धर्मतीर्थकृतो धर्मस्य वस्तुयाथात्म्यस्योत्तमक्षमादेवा तीर्थ शास्त्रं कृतवन्त उपदिष्टवन्तः। चतुर्विंशतिस्तवोनेकतीर्थकरदेवगुणव्यावर्णनं, चतुर्विंशतिशब्दस्यानेकोपलक्षणत्वात् । भवति । कोसौ ? स चतुर्विशतिस्तवः । कतिधा ? षोढा षट्प्रकारः । यत्किम् ? यत्कीर्तनम् । केषाम् ? वृषभादीनाम् । किंविशिष्टानाम् ? अर्हत्केवलिजिनलोकोद्योतधर्मतीर्थकृताम् । अर्हन्तश्च केवलिनश्च जिनाश्च लोकोद्योताश्च धर्मतीर्थकृत. श्वाहत्केवलिजिनलोकोद्योतधर्मतीर्थकृतस्तेषामहतां केवलिनां जिनानां लोकोद्योतानां धर्मतीर्थकृतां च सर्वेषां वृषभादीनाम् । कया कीर्तनम् ? भत्त्या नामादिस्तवभेदात् । व्यवहारनिश्चयाभ्यां विभजन्नाह
स्युनामस्थापनाद्रव्यक्षेत्रकालाश्रयाः स्तवाः।
व्यवहारेण पश्चार्थादेको भावस्तवोऽर्हताम् ॥ ३८ ॥ स्युर्भवेयुः । के ते ? स्तवाः । केषाम् ? अर्हतां चतुर्विंशतितीर्थकराणाम् । कति ? पञ्च । केन ? व्यवहारेण । किंविशिष्टास्ते ? नामाद्याश्रयाः। अर्थात् परमार्थतोऽर्हतामेको भावस्तवः स्यात् । नामस्तवस्वरूपमाह
अष्टोत्तरसहस्रस्य नाम्नामन्वर्थमर्हताम् ।
वीरान्तानां निरुक्तं यत्सोत्र नामस्तवो मतः ॥ ३९ ॥ सोत्र नामाद्याश्रयेषु मध्ये नामस्तवो मत इष्टः । यत्किम् ? यन्निरुक्तं निर्वचनं क्रियते । किंविशिष्टम् ? अन्वर्थमभिधेयानुगतम् । कस्य ? अष्टो. त्तरसहस्रस्य । केषाम् ? नानाम् । केषां संबन्धित्वेन ? अर्हताम् । किंविशिष्टानाम् ? वीरान्तानां नाम्नामिति श्रीमदादिसंज्ञानाम् । तानि चार्षे पञ्चविंशतितमे पर्वणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org