________________
अष्टमोऽध्यायः ।
परिणामि जीव मुत्तं सपदेसं एय खेत्त किरिया य । णिश्चं कारण कत्ता सव्वगदिदरम्हि यपएसो ॥ परिणामोन्यथाभावः । स चात्र व्यञ्जनपर्यायः । तद्वन्तौ जीवपुद्गलावेव, तिर्यगादिगतिषु भ्रमणोपलम्भाल्लोष्टादिभावेन परिणमनप्रतीतेश्च । शेषाणि चत्वारि धर्मादिद्रव्याण्यपरिणामीनि, व्यञ्जनपर्यायाभावात् । अर्थपर्यायापेक्षया पुनः षडपि परिणामीन्येव । जीवश्चेतनालक्षण आत्मैव, ज्ञातृत्वद्रष्टत्वात् । पञ्चान्येऽजीवाः। मूर्त पुद्गलद्रव्यं, रूपादिमत्त्वात् । पञ्चान्ये स्वमूर्ताः। सप्रदेशा जीवादयः पञ्च, प्रदेशवत्त्वदर्शनात् । कालाणवः परमाणुश्वाप्रदेशाः, प्रचयबन्धाभावात् । एकरूपाणि धर्माधर्माकाशानि, सर्वदा प्रदेशविघटनाभावात् । संसारिजीवपुद्गलकालास्त्वनेकरूपाः, प्रदेशानां भेदोपलम्भात् । क्षेत्रमाकाशं, सर्वेषामाधारत्वात् पञ्चान्येऽक्षेत्राण्यावगाहनलक्षणाभावात् । क्रिया जीवपुद्गलयो: गतिमत्त्वात् । अन्ये त्वक्रियाः । नित्या धर्माधर्माकाशकाला व्यञ्जनपर्यायापेक्षया विनाशाभावात् । अन्यावनित्यौ । कारणानि जीववर्जानि पञ्च, जीवं प्रति उपकारकत्वात् । जीवस्त्वकारणं स्वतन्त्रत्वात्। कर्ता जीवः शुभाशुभफलभोक्तत्वात् । पञ्चान्येऽकारः। सर्वगतमाकाशम् । पञ्चान्ये स्वसर्वगताः । इतरेष्वप्यपरिणामित्वादिधर्मेषु जीवादीनां प्रवेशो व्याख्यात एव । सप्रदेशमधस्तिर्यगूर्वलोकविभक्तमाकाशं क्षेत्रलोकः। द्रव्यगुणपर्यायाणां संस्थापनं चिह्नलोकः । क्रोधादय उदय. मागताः कषायलोकः । नारकादियोनिगताः सत्वा भवलोकः । तीव्रराग. द्वेषादयो भावलोकः । द्रव्यगुणादिभेदाच्चतुर्धा पर्यायलोकः । उक्तं च
दव्वगुणखेत्तपजय भवाणुभावो य भावपरिणामो।
जाण चउव्विहमेयं पजयलोगं समासेण ॥ तत्र द्रव्यगुणा जीवस्य ज्ञानादयः पुद्गलस्य स्पर्शादयो धर्माधर्माकाश. १ परिणामी जीवः मूर्तः सप्रदेश एकक्षेत्रक्रियाश्च ।
नित्यः कारणं कर्ता सर्वगत इतरस्मिन्नप्रवेशः ॥ २ द्रव्यगुणः क्षेत्रपर्यायः भवानुभावश्च भावपरिणामः । जानीहि चतुर्विधमेनं पर्यायलोकं समासेन ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org