SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ५६४ अनगारधर्मामृते-- लिङ्गे । ते अस्य स्त इत्यहच्छ्रुतलिङ्गवान् । निन्दायां मंतुः । उक्तं चारित्रसारे "एवं कृत्वा अभव्यस्यापि निर्ग्रन्थलिङ्गधारिण एकादशाङ्गाध्यायिनो महाव्रतपरिपालनादसंयमभावस्याप्युपरिमप्रैवेयकविमानवासिता उपपन्ना भवति" इति । __ एवं सामायिक व्याख्यायेदानी चतुर्विंशतिस्तवं नवभिः पद्यैर्व्याख्यातुकामः पूर्वं तल्लक्षणमाह कीर्तनमहत्केवलिजिनलोकोद्योतधर्मतीर्थकृताम् । भक्त्या वृषभादीनां यत्स चतुर्विंशतिस्तवः षोढा ॥३७॥ कीर्तनं प्रशंसनम् अर्हन्तोऽरेर्जन्मनश्च हन्तृत्वात् पूजाद्यर्हत्वाच्च । उक्तं च अरिहंति वंदणणमंसणाणि अरिहंति पूयसकारं । अरिहंति सिद्धिगमणं अरिहंता तेण वुच्चंति ॥ केवलिनः सर्वद्रव्यपर्यायसाक्षात्कारिणः । जिना अनेकभवगहन विषमव्यसनप्रापणहेतून् कर्मारातीन् जितवन्तः । लोकोद्योता नामादिनवप्रकारलोकस्य भावेनोद्योतकाः । ज्ञातार इत्यर्थः । नवधा लोको यथा णामं ठवणं दव्वं खेत्तं चिण्हं कसाय लोओ य। भवलोगभावलोगं पजयलोगो य णादव्वो ॥ अत्र यानि कान्यपि लोके शुभान्यशुभानि वा नामानि स नामलोकः । तथा यत्किचिल्लोके कृत्रिममकृत्रिमं चास्ति स स्थापनालोकः। तथा षड्. द्रव्यप्रपञ्चो द्रव्यलोकः । उक्तं च १-भूमनिन्दाप्रशंसासु नित्ययोगेतिशायने । संबन्धेस्ति विवक्षायां भवन्ति मतुबादयः ॥ २-अर्हन्ति वन्दननमसनानि अर्हन्ति पूज्यसत्कारम् । अर्हन्ति सिद्धिगमनमर्हन्तस्तेन उच्यन्ते ॥ ३ नाम स्थापना द्रव्यं क्षेत्र चिहं कषायलोकश्च । भवलोकभावलोकं पर्यायलोकश्च ज्ञातव्यः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy