________________
अष्टमोऽध्यायः ।
५६३
wmmmmmmmmmmm येनार्हच्छ्रुतलिङ्गवानुपरिमौवेयकं नीयतेऽभव्योप्यद्भुतवैभवेत्र न सजेत् सामायिके कः सुधीः ॥३६॥
कः सुधीः सद्बुद्धिर्न सजेन्नासक्तो भवेत् । क्व ? अत्र एतस्मिन् सामायिके । किंविशिष्टे ? अद्भुतवैभवे । अद्भुतमाश्चर्यं विस्मयनीयं वैभवं माहात्म्यं यस्य, तस्मिन् । सर्वोपि प्रेक्षापूर्वकारी आसक्तो भवेदित्यर्थः । यद्भाग् यत् सामायिक सेवमानोपि श्रावको देशसंयतोपि । न केवलं संयत इत्यपि शब्दार्थः । न जातु न कदाचिद्विक्रियते विकारं नीयते । कैः ? कैश्चिद् बाबैरभ्यन्तरैर्वा विकारकारणैः । किंवत् ? यतिवद्, हिंसादिषु सर्वेष्वनासक्तचित्तोभ्यन्तरप्रत्याख्यानसंयमघातिकर्मोदयजनितमन्दा. विरतिपरिणामे सत्यपि महाव्रत इत्युपचर्यते, इति कृत्वा यतिना तुल्यं वर्तमानः । किं कुर्वन् ? चरन् प्रवर्तमानः । केन? एकत्वेन । एकस्यासहायस्य कर्तृत्वभोक्तृत्वव्यतिरेकेण ज्ञायकस्य भाव एकत्वं, तेनैकत्वेन । ज्ञातृत्वमात्रे. णेत्यर्थः । क ? निजात्मनि निजो नित्यः स्वश्चात्मा निजात्मा तस्मिन् । नित्यस्वात्मनीत्यर्थः । कुतः ? मनोवाकायकर्मच्युतेः। मनश्च वाक् च कायश्च मनोवाकायाः । तेषां कर्माण्यात्मप्रदेशपरिस्पन्दा मनोवाकायकर्माणि । तेभ्यश्युतिश्यवनमनीहितेन वृत्तिस्तस्या मनोवाकायकर्मच्युतेः। आगमभावसामायिकाभ्यासपूर्वकं नोआगमभावसामायिकेन परिणममानस्य स्वविष. येभ्यो निवृत्त्य कायवाङ्मनःकर्मणामात्मना सह वर्तनादित्यर्थः । उक्तं च- सामायियम्हि दु कदे समणो इव सावओ हवदि जसा। ... एदेण कारणेण दु बहुसो सामाइयं कुजा ॥
तथा येन सामायिकेन नीयते प्राप्यते । कोसौ ? अभव्योपि । किं पुनभव्य इत्यपिशब्दार्थः । किं तत् ? उपरिमौवेयकम् । अष्टानां अवेयकविमानानामुपरि भवमुपरिमम् । तच्च तद् प्रैवेयकं च नवानुदिशप्रस्तारादधोवर्तिविमानम् । किंविशिष्टः सन् ? अर्हच्छतलिङ्गवान् । श्रुतं चैकादशाङ्गलक्षणं लिङ्गं च द्रव्यनिर्ग्रन्थचिह्नं श्रुतलिङ्गे । अर्हतः श्रुतलिङ्गे अर्हच्छ्रुत१-सामायिके तु कृते श्रमण इव श्रावको भबति यस्मात् । एतेन कारणेन तु बहुशः सामायिकं कुर्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org