________________
५६२
अनगारधर्मामृते-.
साम्यस्य सकलसदाचारमूर्धाभिषिक्तत्वात् तस्यैव भावनायामात्मानमासअयन्नाह
सर्वसत्त्वेषु समता सर्वेष्वाचरणेषु यत् । परमाचरणं प्रोक्तमतस्तामेव भावये ॥ ३४ ॥ यद् यस्मात्प्रोक्तं पूर्वाचार्यैः । किम् ? आचरणम् । किंविशिष्टम् ? परमुत्कृष्टम् । केषु मध्ये ? आचरणेषु । किंविशिष्टेषु ? सर्वेषु । कासौ ? समता साम्यम् । केषु ? सर्वसत्त्वेषु सकलपाणिषु सर्वद्रव्येषु वा । यत एवमतो भावये पुनः पुनश्चेतसि निवेशयाम्यहम् । काम् ? तामेव समताम् । न किंचिदन्यत् ।
एवं भावसामायिकमवश्यसेव्यतया संप्रधार्य तदारूढमात्मानं ख्यापय. बाह
मैत्री में सर्वभूतेषु वैरं मम न केनचित् । सर्वसावधविरतोस्मीति सामायिकं श्रयेत् ॥ ३५॥
श्रयेदाश्रयेन्मुमुक्षुः । किं तत् ? सामायिकम् । कथम् ? इति शुभेऽशुभे वा केनापीत्यादिप्रबन्धोक्तेन प्रकारेण । तच्छेषमाह-अस्ति । कासौ ? मैत्री मा भूत्कोपीह दुःखीत्यादिनोक्ता । केषु ? सर्वभूतेषु सर्वजीवेषु । कस्य ? मे मम । नास्ति । किं तत् ? वैरं विरोधः । केन सह ? केनचित् केनापि स्वपक्षेण परपक्षण वा । कस्य ? मम । तथा अस्मि भवाम्यहम् । कीदृशः ? सर्वसावधविरतः । सावद्या हिंसादिपातकयुक्ता मनोवाकायव्यापाराः । सर्वे च ते सावद्याश्च सर्वसावद्याः । तेभ्यो विरतो निवृत्तः । एतेन भावसामायिकं सर्वजीवेषु मैत्रीभावोऽशुभपरिणामवर्जनं वेति प्रागुक्तं भावसामायिकं प्रतीतिदाथि पुनरुक्तं प्रतिपत्तव्यम् । पंचदशकम् । - अनन्यसामान्यं सामायिकमाहात्म्यमादर्शयंस्तत्प्रति सुधियः प्रयतेरन्निति शिक्षार्थमाह
एकत्वेन चरनिजात्मनि मनोवाकायकर्मच्युतेः, कैश्चिद्विक्रियते न जातु यतिवद्यद्भागपि श्रावकः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org