________________
अष्टमोऽध्यायः ।
ऐन्द्रियकसुखदुःखे प्रतिक्षिपन्नाह - कृतं तृष्णानुषङ्गिण्या खसौख्यमृगतृष्णया । खिद्ये न दुःखे दुर्वारकर्मारिक्षययक्ष्मणि ॥ ३२ ॥
कृतं पर्याप्तं सम । धिगिमा मित्यर्थः । कया ? खसौख्यमृगतृष्णया । खसौख्यमिन्द्रियसुखमेव मृगतृष्णा मध्याह्नार्कमरीचिका, तया । किंविशिटया ? तृष्णानुषङ्गिण्या । तृष्णाया वान्छायाः पिपासाया इवानुषङ्गोस्याः अस्तीति तृष्णानुषङ्गिणी, तया । यथा मृगतृष्णा पिपासामनुषञ्जयति तथेन्द्रियसुखवान्छामित्यर्थः । तथा न खिद्ये न दैन्यं याम्यहम् । क्व ? दुःखे । किं विशिष्टे ? दुर्वारकर्मारिक्षययक्ष्मणि । दुर्वारा वारयितुमशक्या कर्मारयः कर्मशत्रवः सामर्थ्यादसातावेदनीयादयो दुर्वारकर्मारयः । तेषां क्षययक्ष्मा क्षयव्याधिनिर्जरणकारणत्वात् तस्मिन् । स्वकाले विपच्यमानानां कर्मणां दुर्वारत्वं सुप्रसिद्धमेव । उक्तं च
कर्माण्युदीर्यमाणानि स्वकीये समये सति । प्रतिषेद्धुं न शक्यन्ते नक्षत्राणीच केनचित् ॥
बाह्या अध्याहु:
एष पार्थरथः कर्ण श्वेताश्वः कृष्णसारथिः । दुर्वारः परसैन्यानां विपाकः कर्मणामिव ॥
प्रेक्षावतां दुःसहसंसारदुःखानुभव एव रत्नत्रयानुबन्धाय स्यादित्युपदेशा
र्थमाह-
-
दवानलीयति न चेज्जन्मारामेत्र धीः सताम् । तर्हि रत्नत्रयं प्रातुं त्रातुं चेतुं यतेत कः ॥ ३३ ॥
५६१
चेद् यदि न दवानलीयति दवानाविवाचरति । कासौ ? धीर्बुद्धिः । केषाम् ? सतां धीमताम् । क ? अत्र एतस्मिन् जन्मारामे जन्म संसार आराम इव मूढात्मनां प्रीतिनिमित्तविषयबहुलत्वात् । तर्हि तदा को न कोपि सत्सु मध्ये यतेत प्रयत्नं कुर्यात् । किं कर्तुम् ? प्राप्तुं लब्धुं त्रातुं रक्षितुं चेतुं च वर्धयितुम् । किं तत् ? रत्नत्रयं सम्यग्दर्शनज्ञानचारित्रं ॥
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org