________________
५६०
असमसाहससुव्यवसायिनः सकललोकचमत्कृतिकारिणः । यदि भवन्ति न वाञ्छित सिद्धयो हतविधेरयशो न नरस्य तत् ॥ 'इष्टसंयोगानिष्टवियोगतद्विपर्ययाणां
1
सांकल्पिकमेव
सुखदुःखहेतुत्वं
चिन्तयन्नाह -
अनगारधर्मामृते—
योगो ममेटैः संकल्पात् सुखोऽनिष्टैर्वियोगवत् । कष्टश्रेष्ठैर्वियोगोन्यैर्योगवन्न तु वस्तुतः || ३० ॥
अस्ति । कोसौ ? योगः संयोगः । कैः सह ? इष्टैः प्रियैः । किंविशिष्टः ? सुखः सुखहेतुः । कस्य ? मम । कस्मात् ? संकल्पान्मनस्कारात् । न त्वस्ति इष्टैः संयोगो मम सुखहेतुः । कस्मात् ? वस्तुतो वस्तुवृत्या | तात्त्विक इत्यर्थः । किंवत् ? अनिष्टैर्वियोगवद् अप्रियैः सह वियोगो यथा । सोपि हि संकल्पान्मम सुखहेतुर्न तु वस्तुतः । कष्टश्च दुःखहेतुर्ममास्ति । कोसौ ? इष्टैः सह वियोगः । कस्मात् ? संकल्पात् । न तु वस्तुतः । क इव ? अन्यैरनिष्टैः सह योगवत् संयोगो यथा । सोपि हि संकल्पादुःखहेतुर्न तु वस्तुत: । इष्टसंयोगादेर्विकल्प्यमानस्य सुखदुःखहेतुत्वप्रतीतेवास्तवत्वमित्यर्थः : ।
बन्धुशत्रुविषय रागद्वेषौ प्रतिषेधयन्नाह -
ममकारग्रहावेशमूलमन्त्रेषु बन्धुषु ।
को ग्रहो विग्रहः को मे पापघातिष्वरातिषु ॥ ३१ ॥ को न कश्चिद्रहो रागोस्ति मे । केषु ? बन्धुषु । किंविशिष्टेषु ? ममकारग्रहावेशमूलमन्त्रेषु । ममकारो ममत्वं ममामी उपकारका इति बुद्धिः । स एव ग्रहावेशो ब्रह्मराक्षसादिग्रहसंक्रमणं विकृतचेष्टा निबन्धनत्वात् । तत्र मूलमन्त्रो ग्रहावेशवन्ममकारस्य प्रधानकारणत्वात् । मन्त्रः पठितसिद्धोन्न । मूलं च तन्मन्त्रश्च स मूलमन्त्र इति समासः । तथा को न कोपि विग्रहो विरुद्ध ग्रहो विग्रहो विरागो द्वेषो मेस्ति । केषु ? अरातिषु शत्रुषु । किंविशिष्टेषु ? पापघातिषु दुःखोत्पादनद्वारेण पापक्षपणहेतुषु । पापं घातयन्ति निर्जरयन्ततीति पापघातिनः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org