________________
अष्टमोऽध्यायः।
शत्रौ द्वेषं च परित्यजामि । सुखे आह्लादनाकारे रागं दुःखे तद्विपरीते द्वेषं च परित्यजामि। जीविताशां मरणभयं च प्रत्याचष्टे
कायकारान्दुकायाहं स्पृहयामि किमायुषे ।
तदुःखक्षणविश्रामहेतोर्मृत्योर्बिभेमि किम् ॥ २८ ॥ किमिति प्रश्नवितर्के । किं स्पृहयामि किमिच्छाम्यहम् । कसै ? आयुषे भवधारणकारणाय कर्मणे। किंविशिष्टाय ? कायकारान्दुकाय। काय एव कारा वन्दिकुटी, निरन्तरदुःखहेतुत्वात् । कायकाराया अन्दुको निगड इष्टगतिप्रतिबन्धकत्वात् कायकारान्दुकस्तस्मै । तथा किं बिभेमि किं त्रस्याम्यहम् । कस्मात् ? मृत्योः। किंविशिष्टात् ? तदुःखक्षणविश्राम हेतोः । तदुखं कायकारापीडा । तस्याः क्षणमेकं समयं द्वौ त्रीन्या क्षणान् विश्रामो निवृत्तिविग्रहगतौ जीवस्य एकं द्वौ त्रीन्वा समयानौदारिकवैक्रियिकशरीरद्वारायास्तदुःखासंभवात् । तद्दुःखस्य क्षणं क्षणी क्षणान्वा विश्रामस्तदुःखक्षणविश्रामः । तस्य हेतुः कारणं, तस्मात् । लाभालाभयोर्हर्षविषादौ प्रतिषेधति
लाभे दैवयशास्तम्भे कस्तोषः पुमधस्पदे ।
को विषादस्त्वलामे मे दैवलाघवकारणे ॥ २९ ॥ जन्मान्तरार्जितं शुभाशुभं कर्म दैवम् । कस्तोषो हर्षो मे । न कोपीत्यर्थः । क्व ? लामे । किंविशिष्टे ? दैवयशास्तम्मे देवस्य पुण्यस्य कर्मणः कीर्तिचिहे। पुनः किंविशिष्टे ? पुमधस्पदे पुंसः पुरुषस्याधस्पदे निन्द्यस्थाने, दैवैकनिबन्धनत्वादभिमतप्राप्तेः । तथा कस्तु कः पुनर्विषादो मेस्ति । क ? अलाभे । किंविशिष्टे ? दैवलाघवकारणे देवस्य पूर्वार्जित. कर्मणः, सामर्थ्यात्पापस्य, लाघवमपकर्षः । तस्य कारणं, पापापकर्पहेतुत्वा. दीप्सिताप्राप्तर्विपाकान्तत्वात्कर्मणाम् । अथवा सुप्रयुक्तोपायस्य पुंसोभीष्टफलमलभमानस्य नास्ति जनापवादः । किं तर्हि ? देवस्य वैषम्यात् । इति देवस्य माहात्म्यहानिहेतुरलाभः । यदाहु:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org