________________
- अनगारधर्मामृते
द्वियते । कोसौ ? पुद्गलो रूपिद्रव्यम् । किंविशिष्टः ? मूर्तः स्पर्शरसगन्धवर्णवान् । कथम् ? तथा तेन काल इति व्यपदेशप्रकारेण । तस्य च कालत्वेनोपचरितस्य मूर्तात्मकस्य पुद्गलस्य न जातु कदाचिदप्यहं स्पृश्यः स्पर्शनार्हः, शुद्धनिश्चयनयादेशाच्चिदेकरूपत्वान्मम 'सव्वे सुद्धा हु सुद्धा. णया' इति वचनात् ।
एवं नामस्थापनाद्रव्यक्षेत्रकालसामायिकानि क्रमेणाभिधाय भावसामायिकमात्मसात्कुर्वन्नाह
सर्वे वैभाविका भावा मत्तोन्ये तेष्वतः कथम्।
चिचमत्कारमात्रात्मा प्रीत्यप्रीती तनोम्यहम् ॥२६॥ भवन्ति । के ? भावाः। किं विशिष्टाः ? अन्ये भिन्नाः । कस्मात् ? मत्तश्चिदात्मनः । किमात्मानः ? वैभाविकाः परनिमित्तका जीवितमरणादय औदयिकौपशमिकक्षायिकक्षायोपशमिका वा चत्वारः । कियन्तः ? सर्व सकलाः । अत एतस्मात्कारणात्कथं केन प्रकारेण तनोमि विस्तृणाम्यहम । के ? प्रीत्यप्रीती रागद्वेषौ । केषु? तेषु वैभाविकेषु भावेषु । मध्यस्थोहं तेषु भवामीत्यर्थः । तत्त्वतः किंरूपोऽहम् ? चिञ्चमत्कारमात्रात्मा। चिदेव चमत्कारोऽत्यद्भुतं रूपं चिच्चमत्कारः । स एव तन्मात्रं आत्मा स्वरूपं यस्य स एवम् । पारिणामिकभावस्वभाव इत्यर्थः। परिणामलक्षणैकावस्थत्वाच्छुद्धनयादेशात्सर्वदा जीवस्य । नवभिः श्लोकैर्भावसामायिकमेव प्रपञ्चयन्नाह
जीविते मरणे लाभेऽलाभे योगे विपर्यये ।
बन्धावरौ सुखे दुःखे साम्यमेवाभ्युपैम्यहम् ॥ २७ ॥ अभ्युपैमि अभ्युपगच्छाम्यहम् । किं तत् ? साम्यमेव रागद्वेषयोः परित्यागमेव । क विषये ? जीविते रागं मरणे च द्वेषं परित्यजामीत्यर्थः । एवं लामे इष्टप्राप्तौ रागमलामे इष्टप्राप्त्यभावे द्वेषं च परित्यजामि । योगे इष्टसंयोगे रागम् । विपर्यये प्रत्यासत्तेर्योगस्यैव । वियोगे इत्यर्थः । इष्टवियोगे द्वेषं च परित्यजामि । बन्धावुपकारके बान्धवे रागमरौ अपकारके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org