________________
अष्टमोऽध्यायः ।
rammmmmmm
क्षेत्रसामायिकं भावयन्नाहराजधानीति न प्रीये नारण्यानीति चोद्विजे । देशो हि रम्योऽरम्यो वा नात्मारामस्य कोपि मे ॥ २४ ॥ न प्रीये न रज्याम्यहम् । कथं कृत्वा ? राजधानीति राजानो धीयन्ते ऽस्यामिति राजधानीति संकल्प्य न रागं गच्छामीत्यर्थः । न चोद्विजे नोद्वेगं याम्यहम् । कथं कृत्वा ? अरण्यानीति । महदरण्यमिति संकल्प्य न द्वेषं गच्छामीत्यर्थः । हि यस्मान्न कोपि न कश्चिद्देशः क्षेत्रं रम्यो रमयिता अरम्यो वा नारमयितास्ति । कस्य ? मे । किंविशिष्टस्य ? आत्मारामस्य आत्मैवाराम उद्यानं रतिस्थानं यस्य, अन्यत्र गति प्रतिबन्धकत्वात् । यथाह
यो यत्र निवसन्नास्ते स तत्र कुरुते रतिम् ।
यो यत्र रमते तस्मादन्यत्र स न गच्छति ॥ तथा,ग्रामोऽरण्यमिति द्वेधा निवासोऽनात्मदर्शिनाम् । दृष्टात्मनां निवासस्तु विविक्तात्मैव निश्चलः ॥ अथवा आत्मनोपि सकाशादारामो निवृत्तिर्यस्येत्यात्माराम इति ग्राह्यम् । वस्तुतः स्वात्मन्यपि रते-रागरूपतया मोक्षप्रतिबन्धकत्वेन मुमुक्षुभिरनादरणीयत्वात् । कालसामायिकं भावयन्नाह
नामूर्तत्वाद्धिमाद्यात्मा कालः किं तर्हि पुद्गलः।
तथोपचर्यते मूर्तस्तस्य स्पृश्यो न जात्वहम् ॥ २५ ॥ न भवति । कोसौ ? कालः । कीदृशः ? हिमाद्यात्मा शीतोष्णवृष्टिलक्षणः । हिमादयः शीतोष्णवृष्टय आत्मानः स्वभावा यस्येति विग्रहः । कस्मात् ? अमूर्तत्वात् स्पर्शरसगन्धरूपरहितत्वात् । तर्हि किं कालत्वेन लोकैय॑वह्रियते इत्याह-किमित्यादि । किं तर्हि ? लोकैरुपचर्यते व्यव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org