________________
५५६
अनगारधर्मामृते
साम्यागमज्ञो
"जीवियमरणे लाहालाहे संजोयविप्पओएण । बंधुअरिसुहदुहेवि य समदा सामाइयं णाम ॥" इत्यादि सामायिकप्राभृतकस्य ज्ञाता जीवस्तदनुपयुक्तः । तद्देहस्तस्य साम्यागमज्ञस्य देहः शरीरं साम्यागमज्ञश्च तदेहश्च साम्यागमज्ञतहेहो। तद्विपक्षी । तयोः साम्यागमज्ञतद्देहयोर्विपक्षौ विसदृशौ तद्विपक्षौ । भाविजीवः । कर्मनोकर्मद्वयं चेत्यर्थः । तत्र भाविजीवो ज्ञास्यमानसाम्यागमः । कर्म पुनः साम्ययुक्तेनार्जितं तीर्थकरत्वादिकम् । नोकर्म तु साम्यागमोपाध्यायस्तत्पुस्तकस्तद्युक्तोपाध्यायश्चेत्यादि । यादृशौ तादृशौ शुभावशुभौ वेत्यर्थः । स्तां भवताम् । कौ ? साम्यागमज्ञतदेहौ । न केवलं, तद्विपक्षी च । किंविशिष्टौ स्ताम् ? यादृशौ तादृशौ । कः? न कोपि ग्रहः शुभाशुभाभिनिवेशोस्ति । कस्य? मे मम सामायिकपरिणतस्य । क ? परद्रव्ये परस्यान्यस्य द्रव्यं परद्रव्यम् । किंवत् ? स्वद्रव्यवद् आत्मद्रव्ये यथा । अन्वयमुखेन व्यतिरेकमुखेन वा दृष्टान्तोयम् । आरब्धयोगस्यैव हि स्वद्रव्यमानेभिनिवे. शोभ्यनुज्ञायते, निष्पन्नयोगस्य तु तत्रापि तत्प्रतिषेधात् । तथा चोक्तम् -
मुक्त इत्यपि न कार्यमञ्जसा कर्मजालकलितोहमित्यपि । निर्विकल्पपदवीमुपाश्रयन् संयमी हि लभते परं पदम् ॥ अपि च,यद्यदेव मनसि स्थितं भवेत्तत्तदेव सहसा परित्यजेत् ।
इत्युपाधिपरिहारपूर्णता सा यदा भवति तत्पदं तदा ॥ तथा,
अन्तरङ्गबहिरङ्गयोगतः कार्यसिद्धिरखिलेति योगिना।
आशितव्यमनिशं प्रयत्नतः स्वं परं सदृशमेव पश्यता॥ अन्वयदृष्टान्तपक्षे यथा स्वद्रव्ये ग्रहो मेस्ति तथा परद्रव्ये को ग्रहः ? न कश्चिदित्यर्थः । व्यतिरेकदृष्टान्तपक्षे तु यथा स्वद्रव्ये को ग्रहः १. न कोपि, सथा परद्रव्येपीति व्याख्येयम् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org