________________
अष्टमोऽध्यायः ।
५५५
लक्षणीयम् । विषय इति यावत् । "युडव्या बहुलम् || २|३|१४|| ” इत्यनेन कर्मणि युद्ध | वाचां लक्षणं वाग्लक्षणम् । न वाग्लक्षणम वाग्लक्षणम् । वाचामविषय इत्यर्थः । यथाह -
यजानन्नपि बुद्धिमानपि गुरुः शक्तो न वक्तुं गिरा, प्रोक्तं चेन्न तथापि चेतसि नृणां सम्माति चाकाशवत् । यत्र स्वानुभवस्थितेपि विरला लक्ष्यं लभन्ते चिरात्, तन्मोक्षकनिबन्धनं विजयते चित्तत्वमत्यद्भुतम् ॥ अथवा न वाकू शब्दो लक्षणं स्वरूपं यस्य सोऽवाग्लक्षणस्तम् । अशब्दात्मकमित्यर्थः । यथाह -
अरसंमरुवमगंधं अव्वत्तं चेदणागुणमसद्दं । जाणमलिंगग्गहणं जीवमणिद्दिट्ठसंठाणं ॥
स्थापनासामायिकं भावयन्नाह-
यदियं स्मरयत्यर्चा न तदप्यस्मि किं पुनः । इयं तदस्यां सुस्थेति धीरसुस्थेति वा न मे ॥ २२ ॥
यददादिरूपं कर्म इयं दृश्यमाना अर्चा प्रतिमा कर्त्री यथोक्तमानोन्मानादियुक्तत्वात्, स्मरयति मां स्मरन्तं प्रयोजयति तदप्यर्हदादिरूपं नास्मि न भवाम्यहम् । किं पुनरियमर्चा भवाम्यहम् । सर्वथा न भवामीत्यर्थः । यत एवं तत् तस्मान्न भवति । कासौ ? धीर्बुद्धिः । कस्य ? मे मम । कस्याम् ? अस्यामचयाम् । कथं कृत्वा ? सुस्थेति सम्यग् यथोक्तलक्षणादिभेदेन तिष्ठतीति सुस्था इति धीर्न मेस्ति । वा अथवा असुस्थेति यथोक्तलक्षणविपरीता धीर्न मेस्ति ।
1
द्रव्यसामायिकं भावयन्नाह
साम्यागमज्ञतौ तद्विपक्षौ च यादृशौ ।
ताशौ स्तां परद्रव्ये को मे स्वद्रव्यवग्रहः ॥ २३ ॥
१—अरसमरूपमगन्धमव्यक्तं चेतनागुणमशब्दम् । जानीहि अलिङ्गग्रहणं जीवमनिर्दिष्टसंस्थानम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org