________________
५५४
अनगारधर्मामृते
तत्र समितिप्राशस्त्ये एकीभावे च विवक्षितः अय इति गमने । आदिशब्देन परीषहकषायेन्द्रियजयसंज्ञादुर्लेश्यादुानवर्जनादिपरिग्रहः समं समानमेकमित्यर्थः । स्यात् । कोसौ ? समयः। कोर्थः ? प्रशस्तसमगमनम् । प्रशस्तं समत्वेनैकत्वेन गमनम् तथा परिणमनं प्रशस्तसमगमनम् । क ? दृग्ज्ञानतपोयमनियमादौ। दृक् च ज्ञानं च तपश्च यमश्च नियमश्च दृरज्ञानतपोयमनियमाः । ते आदयो यस्य परीषहजयादेः सोयं हरज्ञानतपोयमनियमादिस्तस्मिन् । स्याच्च । कोसौ ? समय एव । किम् सामायिकम् । केन ? ठणा ठणू प्रत्ययेन "विनयादेष्टण् ॥४२॥४०॥" इत्यनेन विहितेन । किंविशिष्टेन ? स्वार्थिकेन स्वार्थे भवेन । सामायिकमित्यत्र "अनुशतिकादेः॥ ५। २ २५ ॥ "इत्यनेनोभयत्र ऐए। पुनरिति निर्वचनान्तरेणेत्यर्थः । उक्तं च मूलाचारे
सम्मत्तणोणसंजमतवेहिं जं तं पसत्थसमगमणं ।
समयं तु तं तु भणिदं तमेव सामाइयं जाणे ॥ इत्यादि । अथ पञ्चदशभिः श्लोकैः सामायिकाश्रयणविधिमभिधातुकामः प्रथम तावन्नामसामायिकं भावयन्नाह
शुमेऽशुभे वा केनापि प्रयुक्ते नाम्नि मोहतः। स्वमवाग्लक्षणं पश्यन्न रतिं यामि नारतिम् ॥ २१ ॥ न याम्यहम् । काम् ? रतिं प्रीतिम् । न च याम्यहम् । काम् ? अरतिमप्रीतिम् । क सति ? नाम्नि अभिधाने । किंविशिष्टे ? शुभे प्रशस्ते अशुभे वा अप्रशस्ते । पुनः किंविशिष्टे ? प्रयुक्ते उच्चारिते । केन ? केनापि केनचित्पुंसा । सुहृदा शुभे द्विषता चाशुभे इत्यर्थः । कस्मात् ! मोहतोऽज्ञानात् । मां शब्दाविषयमजानतेत्यर्थः । किं कुर्वन्नहम् ? पश्यन् अनुभवन् । कम् ? स्वमात्मानम् । किंविशिष्टम् ? अवाग्लक्षणम् । लक्ष्यते इति लक्षणं १ जैनेन्द्रव्याकरणे वृद्धिसंज्ञास्थाने ऐप् संज्ञास्ति । २ सम्यक्त्वज्ञानसंयमतपोभिर्यत्तत् प्रशस्तसमगमनम् ॥ समयस्स तु भणितस्तमेव सामायिकं जानीहि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org