________________
अष्टमोऽध्यायः।
AAS
खमतीततत्परिणामं वा वस्तु द्रव्यं तस्य सामायिकम् । तच्च द्विविधमागमद्रव्यसामायिक नोआगमद्रव्यसामायिक चेति । सामायिकवर्णकप्राभृतज्ञायी जीवोऽनुपयुक्त आगमद्रव्यसामायिकम् । नोआगमद्रव्यसामायिकं तु त्रिविधं सामायकवर्णकप्राभृतज्ञायिकशरीरभाविजीवतद्व्यतिरिक्तभेदेन । ज्ञातुः शरीरं त्रिविधं भूतवर्तमानभविष्यद्भेदात् । भूतमपि विधा, च्युतं च्यावितं त्यकं चेति । पक्कफलमिव स्वयमेवायुषः क्षयेण पतितं च्युतम् । कदलीघातेन पतितं च्यावितम् । त्यक्तं पुनस्विधा, भक्तप्रत्याख्याने गिनीपादोपगमनमरणः । भक्तप्रत्याख्यानमपि त्रिधा उत्कृष्टमध्यमजघन्यभेदात् । उत्कृष्ट भक्तत्यागस्य प्रमाणं द्वादशवर्षाणि । जघन्यस्यान्तर्मुहूर्तम् । तयोरन्तरालं मध्यमस्य । भाविकाले सामायिकप्राभृतज्ञायिजीवो भाविनोआगमद्रव्यसामायिकम् । तद्व्यतिरिक्तं तु द्विविधं कर्मनोकर्मभेदेन । सामायिकपरिणतजीवेनार्जिततीर्थकरादिशुभप्रकृतिस्वरूपं नोआगमद्रव्यकर्मतद्व्यतिरिक्तं द्रव्यसामायिकम् । नोकर्मतब्यतिरिक्तं तु द्रव्यसामायिक त्रिविधं सचित्ताचित्तमिश्रभेदात् । सचित्तमुपाध्यायः। अचित्तं पुस्तकम् । उभयस्वरूपं मिश्रम् । क्षेत्रसामायिकं सामायिकपरिणतजीवाधिष्ठितं स्थानमूर्जयन्तचम्पापुरादि । कालसामायिकं तु यस्मिन्काले सामयिक. स्वरूपेण परिणतो जीवः स कालः पूर्वाह्नमध्याह्वापराह्नादिभेदभिन्नः। भावसामायिकमुच्यते-वर्तमानपर्यायोपलक्षितं द्रव्यं भावः तस्य सामा. यिकं भावसामायिकम् । तच्च द्विविधमागमभावसामायिक नोआगमभाव. सामायिकं चेति । सामायिकवर्णकप्राभृतकज्ञायक उपयुक्तो जीव आगमभावसामायिकम् । नोआगमभावसामायिकं पुनर्द्वि विधमुपयुक्ततत्परिणत. भेदात् । सामायिकप्राभृतकेन विना सामायिकार्थेषूपयुक्तो जीवः उपयुक्तनोआगमभावसामायिकम् । रागद्वेषाद्यभावस्वरूपेण परिणतो जीवस्तत्परिण. तनोआगमभावसामायिकम् । एष न्यायो यथास्वमुत्तरेष्वपि योज्यः । एषां षण्णामपि मध्ये आगमभावसामायिकेन नोआगमभावसामायिकेन च प्रयोजनमिति । निरुक्त्यन्तरेण पुनर्भावसामायिकं लक्षयन्नाहसमयो दृरज्ञानतपोयमनियमादौ प्रशस्तसमगमनम् । स्यात्समय एव सामायिकं पुनः स्वार्थिकन ठणा ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org