________________
५५२
अनगारधर्मामृते
पृथक् । अन्त तवीप्सार्थोत्र पृथक्शब्दो बोद्धव्यः । पृथक् पृथगित्यर्थः । अत्र नामादिषु प्रत्येकं निक्षिप्य विधिवत् साध्याः सामायिकादयः । नामसामायिकं स्थापनासामायिकं द्रव्यसामायिक क्षेत्रसामायिकं कालसामा. यिकं भावसामायिकं चेति सामायिकं षोढा । एवं चतुर्विंशतिस्तवादयोपि निक्षेप्तव्याः । एवमेते समुदिताः षट्त्रिंशनिक्षेपाः स्युः। सामायिकस्य निरुक्त्या लक्षणमालक्षयतिरागाद्यबाधबोधः स्यात् समायोस्मिनिरुच्यते । भवं सामायिकं साम्यं नामादौ सत्यऽसत्यपि ॥ १९ ॥ स्यात् । कोसौ ? समायः। किंविशिष्टः ? रागाद्यबाधबोधः। रागाद्यबाधो रागद्वेषाभ्यामबाध्यमानः समो भण्यते । बोधस्त्वयः । रागाधबाधश्चासौ बोधश्च रागाद्यबाधबोधः समायो भवेदित्यर्थः ।
अस्मिन्नित्यादि । निरुच्यते अर्थानुगतं कथ्यते । किं तत् ? सामयिकम् । किं विशिष्टम् ? भवं भवतीति भवमुपलभ्यमानम् । क? अस्मिन् समाये । उपयुक्तनोआगमभावसामायिकाख्ये तत्परिणतनोआगमभावसामायिकाख्यमित्यर्थः । किं रूपम् ? साम्यं समस्य कर्म । शुद्धचिन्मात्रसंचेतनमित्यर्थः । क साम्यम् ? नामादौ नामस्थापनादौ । किं विशिष्टे ? सति प्रशस्ते, असति चाप्रशस्ते । तथा हि-नामसामायिक शुभाशुभनामानि श्रुत्वा रागद्वेषवर्जनम् । स्थापनासामायिकं यथोक्तमानोन्मानादिगुणमनोहरास्वितरासु च स्थापनासु रागद्वेषनिषेधः । द्रव्यसामयिकं सुवर्णमृत्तिकादिद्रव्येषु रम्यारम्येषु समदर्शित्वम् । क्षेत्रसामयिकमारामकण्टकवनादिषु शुभाशुभक्षेत्रेषु समभावः । कालसामायिकं वसन्तग्रीष्मादिषु ऋतुषु दिनरात्रिसितासितपक्षादिषु च यथास्वं चार्वचारुषु राग. द्वेषानुद्भवः । भावसामयिकं सर्वजीवेषु मैत्रीभावोऽशुभपरिणामवर्जनं वा । तथा अपिशब्दस्यानुक्तसमुच्चयार्थत्वादयमप्यर्थोत्र वक्तव्यः ।
जातिव्यक्रियागुणनिरपेक्षं संज्ञाकरणं सामायिकशब्दमात्रं वा नामसामायिकम् । सामायिकावश्यकपरिणतस्य तदाकारेऽतदाकारे वा वस्तुनि गुणारोपणं स्थापनासामायिकम् । द्रव्यसामायिकं भविष्यत्परिणामाभिमुख.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org