________________
अष्टमोऽध्यायः।
तन्मुनेः संयतस्य कर्म आवश्यक भण्यते । किं विशिष्टम् ? आहोरात्रिकमहोराने भवम् । कालाढण् । किंविशिष्टस्य ? अवश्यस्य व्याध्युपसर्गाद्यभिभूतस्येन्द्रियायत्तस्य वा । वश्यः स्वाधीनः । न वश्योऽव. श्यः पराधीनः । व्याध्युपसर्गाद्यभिभूत इत्यर्थः । अथवा वश्य इन्द्रियायत्तः। न वश्योऽवश्य इन्द्रियानायत्त इत्यर्थः । अवश्यस्य कर्मावश्यकमिति। द्वन्द्वमनोज्ञादेः॥३।४। १२३ ॥ इति वुञ् । अमुमेवार्थ समर्थयमानः प्राह-यदित्यादि । यत्किम् ? यत्क्रियतेऽक्षावशेन मुनिना । किं तत् ? आहोरात्रिकं कर्म । किं विशिष्टेन ? व्याध्यादिवशेन । न केवलं, स्वस्थे. नेत्यपिशब्दार्थः । अथवा व्याध्यादिवशेन अक्षावशेनापि इन्द्रियानायत्तेन चेति योज्यमपिशब्दस्य विकल्पार्थत्वादव्ययानामनेकार्थत्वात् । आवश्यकस्य भेदोद्देशार्थमाहसामायिकं चतुर्विंशतिस्तवो वन्दना प्रतिक्रमणम् । प्रत्याख्यानं कायोत्सर्गश्वावश्यकस्य षड् भेदाः ॥१७॥
भवन्ति । के ? भेदा विकल्पाः । कति ? षट् । कस्य ? आवश्यकस्य विभाग उद्देशे एवान्तर्भवतीति न पृथगुक्तिः। किं किम् ? “सामायिक चतुर्विंशतिस्तवो वन्दना प्रतिक्रमणं प्रत्याख्यानं कायोत्सर्गश्च ।" चः समुचये।
निक्षेपविरहितं शास्त्रं व्याख्यायमानं वक्तुः श्रोतुश्चोत्पथोत्थानं कुर्यात् इति नामादिषु षट्सु पृथक् पृथग् निक्षिप्तानां सामायिकादीनां षण्णामप्यनुष्ठेयतामुपदिशति
नामस्थापनयोव्यक्षेत्रयोः कालभावयोः । पृथमिक्षिप्य विधिवत्साध्याः सामायिकादयः ॥१८॥ साध्या व्याख्येयाः सूरिभिः । के ते ? सामायिकादयः। किं कृत्वा ? निक्षिप्य न्यस्य । किंवत् ? विधिवद् आवश्यक नियुक्तिनिरूपितविधानेन । कयोः ? नामस्थापनयोः । न केवलं, द्रव्यक्षेत्रयोः । न केवलं, कालभावयोश्च । चशब्दोत्र लुप्तनिर्दिष्टो द्रष्टव्यः । कथम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org