________________
५५०
अनगारधर्मामृते
___ ननु मुमुक्षोः पापबन्ध इव पुण्यबन्धोपि कथमनुरोद्धव्यः स्यादिति वदन्तं प्रत्याहमुमुक्षोः समयाकर्तुः पुण्यादभ्युदयो वरम् । न पापाद्दुर्गतिः सह्यो बन्धोपि ह्यक्षयश्रिये ॥ १५ ॥ वरं मनागिष्टः स्यात् । कोसौ ? अभ्युदयः स्वर्गादिपदप्राप्तिः । कस्मात् ? पुण्याद्धेतोः । कस्य ? मुमुक्षोर्मोक्तुमिच्छोः । किंविशिष्टस्य ? समयाकर्तुः कालं यापयतः । समयांसपत्रेत्यादिना साधुः । अथवा, अयो बोधः । समो रागद्वेषाभ्यामपरिणतः । समश्चासावयश्च समय उदासीनज्ञानम् । शकन्ध्वादित्वात् समशब्दस्य पररूपम् । करोतीत्येवंशीलः कर्ता । न कर्ता अकर्ता । समयमकर्ता समयाकर्ता । तस्य समयाकर्तुः । उदासीनज्ञानाकरणशीलस्येत्त्यर्थः । न वरं न मनागपीष्टा स्यात् । कासौ ? दुर्गतिर्नरकादिगतिमिथ्याज्ञानं दारिद्यं वा । कस्मात् ? पापाद्धेतोः । यथाह
वरं व्रतैः पदं दैवं नावतैर्बत नारकम् ।।
छायातपस्थयोर्भेदः प्रतिपालयतोर्महान् ॥ अत्र समर्थनमाह-सह इत्यादि । हि यस्मात्सा सोढुं योग्यः । कोसौ ? बन्धोपि प्रकृतत्वात्पुण्यबन्धः । कस्यै ? अक्षयश्रिये शाश्वतलक्ष्म्यर्थम् । अयमत्राभिप्रायः-यथा निर्व्याजभक्तिभाजोऽनुजीविनः स्वामिना कथमपि निगडिताः सन्तः पुनस्ततः शाश्वतीं श्रियमिच्छन्तस्तद्भक्तिमेवोपचिन्वन्ति, तथा मुमुक्षवोपि शुद्धस्वात्मानुभूतिमविन्दन्तो जिनभक्तिभाविताः सन्तस्तदुपदिष्टां कियां चरन्तस्तन्निबन्धनं पुण्यबन्धमपवर्गलक्ष्मीसिद्ध्यङ्गध्यानसाधनसमर्थोत्तमसंहननादिनिमित्तत्वादभ्युपगच्छन्ति ।
एवं कर्तव्यतया व्यवस्थापितस्यावश्यकस्य निर्वचनद्वारेणावतार्य लक्षणमुपलक्षयतियद्याध्यादिवशेनापि क्रियतेऽक्षावशेन तत। आवश्यकमवश्यस्य कर्मोहोरात्रिकं मुनेः॥१६॥ १ समयासपत्रानिष्पत्रानिष्कुलासुखाप्रियादुःखाशूलासत्याभद्रामद्राः ॥
(४।२।६४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org