________________
अष्टमोऽध्यायः।
५४९
कम् । कथम् ? तावद् । यावरिकम् ? यावल्लभे प्रामोम्यहम् । काम् ? शुद्धात्मसंविदम् । शुद्धः सर्वचिवतॊत्तीर्णः । स चासावात्मा च शुद्धात्मा। तस्य संचित् संवित्तिः शुद्धात्मसंवित् , ताम् । कीदृशीम् ? साक्षात्कर्मोच्छिदम् । साक्षादव्यवधानेन कर्माणि घातीनि अघातीनि च उच्छिनत्ति उन्मूलयति साक्षात्कर्मोच्छित्, ताम् । कस्मात् ? इतीहरभेदविज्ञानबलात् । इत्येवं स्वरूपम्, ईदृगीदृशं सूत्रे यथोपदिष्टं भेदविज्ञानमितीदृग्भेदविज्ञानम् । तस्य बलं सामर्थ्य, तस्मात् । सैषा न्यग्भावितज्ञानक्रियाप्रधाना मुमुक्षोरधस्तनभूमिका परिकर्मतयोपदिष्टा । यथाह
यावत्पाकमुपैति कर्मविरतिर्ज्ञानस्य सम्यङ् न सा, कर्मशानसमुश्चयोपि विहितस्तावन्न काचित् क्षतिः। किन्त्वत्रापि समुल्लसत्यवशतो यत्कर्मबन्धाय त,न्मोक्षाय स्थितमेकमेव परमं ज्ञानं विमुक्तं स्वतः॥ ननु च मुमुक्षुश्च बन्धनिबन्धनक्रियापरश्चेति विप्रतिषिद्ध मेतत् इत्यत्र
समाधत्ते
सम्यगावश्यकविधेः फलं पुण्यासवोपि हि ।
प्रशस्ताध्यवसायोंहश्छित् किलेति मतः सताम् ॥१४॥ किल इत्यागमोक्तौ । आगमे ह्येवं श्रूयते । हि यस्माद्भवति । कोसौ ? प्रशस्ताध्यवसायः शुभपरिणामः । कीदृशो भवति ? अंहश्छित् अंहसः पापस्थापनेता। कीदृशोपि ? पुण्यात्रवोपि पुण्यात्रवणकारणमपि । किंरूपोसौ ? फलं साध्यम् । कस्य ? सम्यगावश्यकविधेः। आवश्यकस्य विधिविधानमावश्यकविधिः । सम्यगविपरीतश्चासावावश्यक विधिश्च सम्यगावश्यकविधिस्तस्य । इति हेतोर्मतो मन्यते । कोसौ ? प्रशस्ताध्यवसायः । केषाम् ? सतां साधूनाम् । सद्भिरिष्यते इत्यर्थः । उक्तं च
आवश्यकं न कर्तव्यं नैष्फल्यादित्यसांप्रतम् । प्रशस्ताध्यवसायस्य फलस्यात्रोपलब्धितः ॥ प्रशस्ताध्यवसायेन संचितं कर्म नाश्यते । काष्ठं काष्ठान्तकेनेव दीप्यमानेन निश्चितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org