________________
५४८
अनगारधर्मामृते
संवेद्यमानं ज्ञानम् । तथैतावदेव सत्यमनुभवनीयं यावदिदं स्वयं संवेद्यमानं ज्ञानम् । यत एवं तत् तस्मादस्मि भवाम्यहम् । किंविशिष्टः ? रत आसक्तः । क ? इह ज्ञाने । कथम् ? संततं नित्यम् । तथेह ज्ञाने संततं संतुष्टोस्मि संतोषं गतोमि । तथेह ज्ञाने संततं तृप्तः सुखीभूतोमि । भेदज्ञानादेव बन्धोच्छेदे सति मोक्षलाभादनन्तं सुखं स्यादित्यनुशास्तिक्रोधाद्यास्रवविनिवृत्तिनान्तरीयकतदात्मभेदविदः । सिध्यति बन्धनिरोधस्ततः शिवं शं ततोऽनन्तम् ॥ १२ ॥ सिध्यति निष्पद्यते । कोसौ ? बन्धनिरोधः कर्मबन्धविनाशः। कस्याः सकाशात् ? क्रोधादीत्यादि । अत्रादिशब्दो व्यवस्थाभवनः । तेन पुंसः पारतन्यनिमित्तानां रागद्वेषमोहानां वादरेतरयोगानामघातिकर्मतीव्रमन्दोदययोः कालविशेषस्य च ग्रहणम् । कर्मास्रवत्यनेनेत्यास्रवः । क्रोधादिश्वासावात्रवश्व क्रोधाद्यास्रवः । तस्य विशेषेण निवृत्तिः क्रोधाद्यास्त्रवविनिवृत्तिः । तया नान्तरीयकी अविनाभूता क्रोधाद्यास्रवविनिवृत्तिनान्तरीयकी । संवरसहभाविनीत्यर्थः । तच्छब्देन क्रोधाद्यास्रवः परामृश्यते । आत्मशब्देन च चेतनः । स क्रोधाद्यास्रवश्वात्मा च तदात्मानौ । तयोर्भेदो विवेकः । तस्य विद् ज्ञानं तदात्मभेदवित् । क्रोधाद्यास्रवविनिवृत्तिनान्तरीयकी चासौ तदात्मभेदविच्च क्रोधाद्यास्रवविनिवृत्तिनान्तरीयकतदात्मभेदवित् , तस्यास्ततः । उक्तं च. भेदविज्ञानतः सिद्धाः सिद्धा ये किल केचन ।
अस्यैवाभावतो बद्धा बद्धा ये किल केचन ॥ ततश्च बन्धनिरोधात् सिध्यति । कि तत् ? शिवं मोक्षः। ततोपि शिवाच्छं सुखं सिध्यति । कीदृशम् ? अनन्तं शाश्वतम् । प्रकृतमुपसंहरन् शुद्धात्मसंविल्लाभादधःक्रियामूरीकरोति
इतीदृग्भेदविज्ञानबलाच्छुद्धात्मसंविदम् ।
साक्षात्कमोच्छिदं यावल्लभे तावद्भजे क्रियाम् ॥ १३ ॥ भजे सेवे । कोसौ ? अहम् । काम् ? क्रियां सम्यग्ज्ञानपूर्वकमावश्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org