________________
अष्टमोऽध्यायः ।
जन्मनि भोगादिकं परत्र शक्रत्वादिकं परसमयं च । तथा यन्नाश्रयते नालम्बते । कम् ? उपक्रोशं जुगुप्साम् । विचिकित्सामित्यर्थः । क्व ? कापि पुरीषादिद्रव्ये क्षुदादिभावे च । तथा यन्न मुह्यति न विपर्येति । क्व ? क्वापि क्वचिद्देवताभासादौ । कापीत्यनुवृध्यात्रापि योज्यम् । तथा यत् पुष्णाति पोषयति । काः ? शक्तीः । किंविशिष्टाः ? निजाः कर्मसंवरणनिर्जरण मोक्षणाभ्युदयप्रापणदुर्गति निवारणादिलक्षणाः । सदेति मध्यदीपकत्वात् सर्ववाक्येषु योज्यम् । तथा यन्न च्यवते न चलति न भ्रश्यति । कस्मात् ? मार्गात् पथो रत्नत्रयलक्षणात् । तथा यदालोकते पश्यति । कम् ? स्वात्मानं निजचिद्रूपम् । किंविशिष्टम् ? शिवपथं निर्वाणमार्गम् । कथम् ? अञ्जसा परमार्थेन । तथा यदभिव्यनक्ति समन्ततः प्रकाशयति । किं तत् ? माहात्म्यं महिमानमचिन्त्यशक्तिविशेषम् । किंविशिष्टम् ? स्वमात्मीयम् । नैसर्गिकमित्यर्थः । उक्तं च
किं पलेविण बहुणा सिद्धा जे णरवरा गए काले । सिज्झिहहिं जे वि भविया तं जाणह सम्ममाहप्पं ॥
एवंविधाष्टाङ्गसम्यग्दर्शनं भवामीत्यर्थः ।
आत्मनो ज्ञानविषयरत्यादिपरिणतिं परामृशति -
सत्यान्यात्माशीरनुभाव्यानीयन्ति चैव यावदिदम् | ज्ञानं तदिहास्मि रतः संतुष्टः संततं तृप्तः ॥ ११ ॥
भवन्ति । कानि ? आत्माशीरनुभाव्यानि । आत्मा पुरुषः । आशीरनागतस्येष्टस्यार्थस्याशातनमाशंसनम् । अनुभाव्यमनुभवनीयम् । आत्मा चाशीश्वानुभाव्यं चात्माशीरनुभाव्यानि । कथंभूतानि भवन्ति ? सत्यानि पर. मार्थसन्ति । कियन्ति ? इयन्ति चैत्र एतावन्त्येव । यावत्किम् ? यावद् यन्मात्रमिदं स्वयं प्रतीयमानं ज्ञानम् । तथा हि- एतावानेव सत्य आत्मा यावदिदं स्वयं संवेद्यमानं ज्ञानम् । तथैतावत्येव सत्या आशीर्यावदिदं स्वयं
१ किं प्रलपितेन बहुना सिद्धा ये नरवरा गते काले ।
सेत्स्यन्ति येपि भविकास्तज्जानीहि सम्यग्माहात्म्यम् ॥
५४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org