________________
५४६
अनगारधर्मामृते
aamanna
नास्मि न भवाम्यहम् । किं तत् ? वाङ्मनोपि । वाक् च मनश्च वाङ्मन इति समाहारद्वन्द्वः । किं विशिष्टम् ? आन्तरमन्तर्भवम् । अन्तजल्पविकल्परूपमित्यर्थः । वाङ्मन इति 'सान्तो विधिरनित्य' इत्यभिधानात्, "स्त्रीधेनुवाग्दारात् पुमनडुनमनोगोभ्यः॥ ४।२।७३ ॥” इत्यनेन न समासान्तः । किं पुनरस्मि भवाम्यहम् । किंविशिष्टम् ? अङ्गगीर्देहवाचम् । अङ्गं च गीश्चेति समाहारः। किंविशिष्टम् ? बाह्यं बहिर्भवम् । देहस्य द्रव्यवाचश्च पौगलिकत्वादेवमुच्यते । यत एवं तत् तस्मात् कः । न कोपि स्यात् । कोसौ ? ऐक्यभ्रम एकत्वभ्रान्तिः । कस्य ? मे मम । केषु ? अङ्गजादिषु पुत्रकलत्रमातापित्रादिषु । किंविशिष्टेषु ? अङ्गसङ्गजेषु शरीरसंसर्गजातेषु । 'शरीरं मत्तो भिन्नम् । पुत्रा मत्तो भिन्नाः । कलत्रादयोपि मत्तो भिन्नाः । तेभ्योहमपि तत्त्वतो भिन्नः' इत्येवमध्यवस्यामीत्यर्थः । अङ्गेतिप्रियत्वामन्त्रणे ॥ आत्मनोष्टाङ्गसदृष्टिरूपतामन्वाचष्टेयत्कस्मादपि नो बिभेति न किमप्याशंसति काप्युप,क्रोशं नाश्रयते न मुह्यति निजाः पुष्णाति शक्तीः सदा । मार्गान्न च्यवतेजसा शिवपथं स्वात्मानमालोकते, माहात्म्यं स्वमभिव्यनक्ति च तदस्म्यष्टाङ्गसद्दर्शनम् ॥ १०
अस्मि भवाम्यहम् । किं तत् ? तदष्टाङ्गसद्दर्शनम् । अष्टावङ्गानि निःशङ्कितत्वादीनि यस्य तदष्टाङ्गम् । तच्च तत्सद्दर्शनं च तत्त्वार्थश्रद्धानम् । यत्किम् ? यन्नो बिभेति न शङ्कते न त्रस्यति । कस्मात् ? कस्सादपि कुतश्चिदिहलोकभयं परलोकभयमत्रातृभयमगुप्तिभयं मरणभयं वेदना. भयमकस्माद्यमित्येवंविधभयनिमित्तात् । उक्तं च
रूपैर्भयंकरैर्वाक्यहेतुदृष्टान्तसूचिभिः। जातु क्षायिकसम्यक्त्वो न क्षुभ्यति विनिश्चलः ॥ निःशङ्कितत्वोक्तिरियम् । एवं क्रमेणोत्तरवाक्यैनिःकाशितत्वादीनि सप्त बोद्धव्यानि । तथा यन्नाशंसति न काङ्क्षति । किं तत् ? किमपि इह
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org