________________
अष्टमोऽध्यायः।
५४५
तस्य भावस्तद्भावः । स एव स्वभावो यस्य स एवम् । किं कृत्वा ? विविच्य पृथक्त्वेनानुभूय । केभ्यः ? रागादिभ्यो रागद्वेषमोहक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायेन्द्रियेभ्यः । कथम् ? सम्यगविपरीतम् । रागादिभ्यः स्वात्मनो विभक्तत्वं समर्थयतेज्ञानं जानत्तया ज्ञानमेव रागो रजत्तया । राग एवास्ति नत्वन्यत्तचिद्रागोस्म्यचित् कथम् ॥ ८॥ अस्ति । किं तत् ? शानम् । किमस्ति ? ज्ञानमेव । कया ? जानत्तया जानद्रूपतया । स्वपरावभासकस्वभावतयेत्यर्थः । न त्वस्ति । किं तत् ? ज्ञानम् । किं नास्ति ? अन्यद वस्त्वन्तरम् । राग इत्यर्थः। तथास्ति । कोसौ? रागः। किमस्ति ? राग एव । कया? रजत्तया रज्यद्रूपतया। इष्टविषयप्रीत्युत्पादकस्वभावतयेत्यर्थः । न त्वस्ति । कोसौ ? रागः । किं नास्ति? अन्यद् वस्त्वन्तरम् । ज्ञानमित्यर्थः । यत एवं तत् तस्मात्कथमस्मि ? कोसौ ? अहं चित चिद्रूपः । स्वपरावभासकज्ञानस्वभावत्वात् । किमस्मि? रागः। किंरूपो रागः ? अचित् स्वसंविदितोपि परस्वरूपवेदनशून्यत्वादचेतनः। उपलक्षणमेतत् । तेन द्वेषादिभ्योप्येवमात्मा विवेच्यः । तथा हि,
अस्ति । किं तत् ? ज्ञानम् । किमस्ति ? ज्ञानमेव । कया ? जानत्तया जानद्रूपतया । स्वपरावभासकत्वमावतयेत्यर्थः। न त्वस्ति किं तत् ? ज्ञानम् । किं नास्ति ? अन्यद वेस्त्वन्तरम् । द्वेष इत्यर्थः । तथास्ति । कोसौ ? द्वेषः । किमस्ति ? द्वेष एव । कया? द्विषत्तया अनिष्टार्थाप्रीत्युत्पादकस्वभावतयेत्यर्थः। न त्वस्ति । कोसौ ? द्वेषः । किं नास्ति ? अन्यद् वस्त्वन्तरम् । ज्ञानमित्यर्थः । यत एवं तत् तस्मात्कथमस्मि ? कोसौ ? अहं चित् चिद्रूपः। स्वपरावभासकज्ञानस्वभावत्वात् । किमस्मि ? द्वेषः । किंरूपो द्वेषः ? अचित् स्वसंविदितोपि परस्वरूपसंचेतनशून्यत्वादचेतनः । एवं मोहादावपि योज्यम् । एतदेव स्पष्टयितुं दिङ्मात्रमाहनान्तरं वाङ्मनोप्यस्मि किं पुनर्बाह्यमङ्गगी। तत कोऽङ्गसङ्गजेष्वैक्यभ्रमो मेऽङ्गाऽङ्गजादिषु ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org