________________
५४४
अनगारधर्मामृते--
कर्मादेः । न केवलं, भोक्ता चास्ति । कस्य ? परार्थस्य कर्मादिफलस्य । कस्याः ? अहमित्यैक्याध्यासकृतेरहमित्येकत्वाध्यारोपकरणात् । क? अस्वेऽनात्मनि । परस्मिन् शरीरादौ व्यवहारादेव कर्तृत्वभोक्तृत्वे भजन्नि. त्यर्थः । किं कुर्वन् ? अप्रतियन्प्रतीतिविषयावकुर्वन् । कौ? स्वान्यौ आत्मनात्मकौ । कस्मात् ? स्वलक्षणकलानयत्यतः स्वं प्रतिनियतं लक्षणं स्वरूपं स्वलक्षणम् । तस्य कला विशेषः । तस्या नैयत्यं नियमस्तस्मात् । प्रतिनियतस्वरूपविशेषनियमात् तदाश्रित्य । तर्हि कीदृशः स्वरूपतः पुरुष इत्याहनित्यमित्यादि । अस्ति च पुरुषः । कीदृशः ? ज्ञातैव ज्ञायक एव । कयोः ? तयोः कर्मादितत्फलयोः । कस्मात् ? अर्थात् परमार्थतः । कस्मात् ? अनुभवनात् संवेदनात् । कया? अहंतया अहमित्यस्य भावोऽहंता, तया । अहमित्युल्लेखेनेत्यर्थः । कथम् ? नित्यं सर्वदा । यथाह
मा कर्तारममी स्पृशन्तु पुरुषं सांख्या इवा ह्याहताः, कर्तारं कलयन्तु तं किल सदा भेदावबोधाद्धः। ऊर्ध्व तूद्धतबोधधामनियतं प्रत्यक्षमेनं स्वयं,
पश्यन्तु च्युतकर्तृभावमचलं ज्ञातारमेकं परम् ॥ यत एवं तत् तस्मात्कारणाद् यते संप्रति यत्नं करोम्यहम् । कस्यै ? शुद्धात्मसिद्ध्यै निर्मलस्वात्मसंप्राप्त्यर्थम् । कस्मात् ? स्वान्यप्रविभागबोधबलतः । स्वश्चान्यश्च स्वान्यौ आत्मानात्मानौ । स्वान्ययोः प्रविभागो भेदः स्वान्यप्रविभागः। तस्य बोधो ज्ञानम् । तस्य बलं सामर्थ्य, तस्मात् । अन्यच्छरीरमन्योहमित्यादिभेदज्ञानावष्टम्भादित्यर्थः ।
आत्मनः सम्यग्दर्शनरूपतामनुसंधत्तेयदि टोत्कीर्णैकज्ञायकभावस्वभावमात्मानम् । रागादिभ्यः सम्यग्विविच्य पश्यामि सुदृगसि ॥ ७॥ तदा अस्मि भवाम्यहम् । कीदृशः ? सुदृक् सम्यग्दर्शनरूपः । यदि किम् ? यदि पश्याम्यनुभवाम्यहम् । कम् ? आत्मानम् । कीदृशम् ? टोत्कीर्णेकज्ञायकभावस्वभावम् । टङ्कः पाषाणदारणः। टङ्केनोत्कीर्ण इव टक्कोत्कीर्णो निश्चलसुव्यक्ताकारः । एकः कर्तृत्वभोक्तृत्वरहितः । टङ्कोत्की. र्णश्वासावेकश्च टोत्कीर्णैकः । स चासौ ज्ञायकश्च ज्ञाता टङ्कोत्कीर्णैकज्ञायकः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org