________________
अष्टमोऽध्यायः।
५४३
किंतत् ? तत् प्रसिद्धं ज्ञानावरणादिकर्म । कतिधापि ? अष्टधापि अष्टविधं प्रतिसमयमायुर्वर्जज्ञानावरणादि सप्तविधं कर्म । कदाचिदष्टप्रकार बन्धयन्नपीत्यपिशब्दार्थः । कीदृशं कर्म ? मूर्त पौद्गलिकत्वात् स्पर्शरसगन्धवर्णयुक्तम् । कैः कर्तृभिर्बन्धयन् ? प्राइमिथ्यात्वमुखैः पूर्वोपात्तमिथ्यात्वासंयमकषाययोगैः । मिथ्यात्वं मुखमादिर्येषां तानि मिथ्यात्वमुखानि । प्रागुपात्तानि मिथ्यात्वमुखानि प्रामिथ्यात्वमुखानि, तैः । कीदृशैः ? मूर्ते. व्यरूपत्वात्पौगलिकैः । कतिभिः ? चतुर्भिः प्रमादस्याविरतावन्तर्भावाचतुःसंख्यैः । उक्तं च
सामण्ण पञ्चया खलु चदुरो भण्णंति बंधकत्तारो। मिच्छत्तं अविरमणं कसाय जोगा य बोद्धब्बा ॥ किं कुर्वन् ? रज्यन्निष्टार्थे प्रीतिं कुर्वन् । तथा द्विषन् अनिष्टार्थे अप्रीति कुर्वन् । कियत्कालम् ? आजन्म आसंसारम् । कस्मात् ? अहमित्यवगमादह मिति ज्ञानात् । क ? परे शरीरादौ । शरीरादिकमहमिति निश्चिन्वनित्यर्थः । किं कृत्वा ? प्रच्युत्य पराङ्मुखीभूय । कस्मात् ? मद मत्तश्चिञ्चमत्कारमात्रस्वभावादात्मनः । जातु कदाचिदपि नासदं न प्रापमहम् । न प्राप्तोस्मीत्यर्थः । कम् ? मां चिञ्चमत्कारमानस्वभावमात्मानम् । कथम् ? ही कष्टम् ।
भेदविज्ञानात्पूर्व व्यवहारादेव परं प्रत्यात्मनः कर्तृत्वभोक्तृत्वे परमार्थतश्च ज्ञातृत्वमात्रमनुचिन्त्य भेदविज्ञानाच्छुद्धस्वात्मानुभूतये प्रयत्नं प्रतिजानीते
स्वान्यावऽप्रतियन् स्खलक्षणकलानयत्यतोऽस्खेऽहमित्यैक्याध्यासकृतेः परस्य पुरुषः कर्ता परार्थस्य च । भोक्ता नित्यमहंतयानुभवनाज्ज्ञातैव चार्थात्तयो,स्तत्स्वान्यप्रविभागबोधवलतः शुद्धात्मसिद्ध्यै यते ॥६॥ अस्ति । कोसौ ? पुरुष आत्मा । कीदृशः ? कर्ता । कस्य ? परस्य
१ सामान्यं प्रत्ययान् खलु चतुरो भणन्ति बन्धकर्तृन् । मिथ्यात्वमविरमणं कषाययोगाश्च बोद्धव्याः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org