________________
५४२
अनगारधर्मामृते
पुंसः । न मध्यमज्ञानिन उत्कृष्टज्ञानिनो वेत्यपिशब्दार्थः । कथम् ? तथा तेन अवश्यभोक्तव्यसुखदुःखफलत्वलक्षणेन प्रकारेण । यथाह
रागद्वेषकृताभ्यां जन्तोर्बन्धः प्रवृत्त्यऽवृत्तिभ्याम् ।
तत्त्वज्ञानकृताभ्यां ताभ्यामेवेष्यते मोक्षः॥ यथावश्यभोक्तव्यसुखदुःखफलत्वलक्षणेन प्रकारेण बुद्धिपूर्वा रागाद्या अज्ञानिनो बन्धायालं भवन्ति । अनादिसंतत्या प्रवर्तमानमात्मनः प्रमादाचरणमनुशोचतिमत्प्रच्युत्य परेहमित्यवगमादाजन्म रज्यन् द्विषन्, प्रामिथ्यात्वमुखैश्चतुर्भिरपि तत्काष्टधा बन्धयन् । मूतॆमूर्तमहं तदुद्भवभवैर्भावैरसंचिन्मयै,र्यो योजमिहाद्ययावदसदं ही मां न जात्वासदम् ॥५॥ असदमवसादमगममहं खेदं गतोस्मीत्यर्थः । कथम् ? अद्ययावदिदं दिनावधि । क्व ? इह संसारे । किं कृत्वा ? यो योजं परिणम्य परिणम्य कैः ? भावैर्भावमिथ्यात्वरागादिभिः । कीदृशैः ? तदुद्भवभवैः । तस्य मूर्तकर्मण उद्भव उद्भूतिरुदयस्तदुद्भवः । तस्माद्भवन्ति तदुद्भवभवास्तैः । मूर्तकर्मोदयार्थैरित्यर्थः । पुनः कीदृशैः ? असंचिन्मयैः स्वसंविदितैरपि परार्थसंचेतनशून्यत्वेनाज्ञानमयैः । किं कुर्वन् ? बन्धयनात्मानमात्मना बनन् प्रयुआनः । उक्तं च
अप्पा कुणदि सहावं तत्थ गदा पुग्गला सहावेहिं । गच्छति कम्मभावं अण्णुण्णागाढमोगाढा ॥ अपि च,जीवकृतं परिणाम निमित्तमात्रं प्रपद्य पुनरन्ये स्वयमेव परिणमन्तेत्र पुद्गलाः कर्मभावेन ॥
१ आत्मा करोति स्वभावं तत्र गताः पुद्गलाः स्वभावैः । गच्छन्ति कर्मभावमन्योन्यागाढमवगाढाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org