________________
अष्टमोऽध्यायः ।
ज्ञानिनो विषयोपभोगः स्वरूपेण सन्नपि विशिष्टफलाभावानास्तीति दृष्टान्तेन दृढयति
ज्ञो भुञ्जानोपि नो भुङ्क्ते विषयांस्तत्फलात्ययात् । यथा परप्रकरणे नृत्यन्नपि न नृत्यति ॥ ३॥ नो भुङ्क्ते उपयोगवैमुख्यान्नानुभवति । कोसौ ? ज्ञः । जानातीति ज्ञो ज्ञाता आत्मज्ञानोपयुक्तः पुमान् । कान् ? विषयान् इन्द्रियार्थान् । किं कुर्वाणोपि ? भुआनोपि चेष्टामात्रेणानुभवन् विषयान् । न केवलम्, अभुजान इत्यपिशब्दार्थः । कस्मात् ? तत्फलात्ययात् तस्य विषयभोजनस्य फलं साध्यं तत्फलम् । तथाविधबुद्धिपूर्वकरागादिजनितकर्मबन्धोद्याहमेव लोके श्लाध्यतमः यस्येदृकल्याणप्रवृत्तिः इत्याभिमानिकरसानुबिद्धप्रीत्यनुबन्धश्च । तस्यात्ययोऽभावस्तथाविधविषयोपभोगफलाभावस्तस्मात् । इममेवाथै दृष्टान्तेनावष्टभ्नाति-यथेत्यादि । यया न नृत्यति उपयोगवैमुख्यान नटति । कोसौ ? पुरुषः । किं कुर्वन्नपि ? नृत्यन्नपि चेष्टामात्रेण नटन्नपि नानटन् । क्क परप्रकरणे परस्यान्यस्य प्रकरणं विवाहाद्युत्सवस्त. सिन् । कस्मात् ? तत्फलात्ययात् । उक्तं च
सेवंतोपि ण सेवइ असेवमाणोवि सेवओ कोवि।
पयरणचेट्ठा कस्सवि ण य पायरणोत्ति सो होइ ॥ ज्ञान्यज्ञानिनोः कर्मबन्धं विशिनष्टिनाबुद्धिपूर्वा रागाद्या जघन्यज्ञानिनोपि हि । बन्धायालं तथा बुद्धिपूर्वा अज्ञानिनो यथा ॥४॥ हि यस्मान्न भवन्ति । के ? रागाद्याः। किंविशिष्टाः ? अबुद्धिपूर्वाः। न बुद्धिरात्मदृष्टिः पूर्व कारणं येषां त एवम् । कथम् ? अलं समर्थाः । कसै ? बन्धाय कर्मबन्धार्थम् । कस्य ? जघन्यज्ञानिनो हीनज्ञानवतः
-
१ सेवमानोपि न सेवते असेवमानोपि सेवकः ।
प्रकरणचेष्टा कस्यापि न च प्राकृत इति स भवति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org