________________
५४०
अनगारधर्मामृते
न भवति । किं तत् ? अर्थसेवनं विषयोपभोगः । कसै ? बन्धाय पुंसः कर्मबन्धनार्थम् । किंविशिष्टं सत् ? हतं प्रतिबद्धकर्मबन्धनसामर्थ्यम् । कया ? ज्ञप्त्या आत्मदेहान्तरज्ञानेन । किमिव ? विषमिव । इवशब्दो यथार्थे । यथा न भवति । किं तत् ? विषम् । कस्यै ? म्रत्य्वै मरणार्थम् । किंविशिष्टं स्यात् ? हतं प्रतिबद्धमरणसामर्थ्यम् । केन ? मन्त्रेण । तथा प्रकृतेपीत्यर्थः । तथा न च भवति ? किं तत् ? अर्थसेवनम् । कस्मै ? बन्धाय । किंविशिष्टं सत् ? हतं प्रतिबद्धकर्मबन्धनसामर्थ्यम् । कया? विरक्त्या आत्मदेहान्तरज्ञानोत्थवैराग्येण । किमिव ? मधु वा। वा शब्दो यथार्थे । यथा न भवति । किं तत् ? मधु मद्यम् । कस्मै ? मदाय क्षीवतार्थम् । किंविशिष्टं सत् ? हतं प्रतिबद्धमदकरणसामर्थ्यम् । कया ? अरत्या मधुविषयाऽप्रीतिभावेन । तथा प्रकृतमपीस्यर्थः । उक्तं च
जह विसमुवं जंता विजापुरुषा दु ण मरणमुवेति । पोग्गलकम्मस्सुदअं तह भुंजदि णेव भुंजए णाणी ॥ जह मजं पिवमाणो अरईभावेण मञ्चदि ण पुरिसो। दव्वुव भोगे अरदो णाणी वि ण मज्झदि तहेव ॥ अपि चधात्रीवालाऽसतीनाथपद्मिनीदलवारिवत् ।
दग्धरज्जुवदाभासाद् भुञ्जन् राज्यं न पापभाक् ॥ तथा,
बन्धो जन्मनि येन येन निबिडं निष्पादितो वस्तुना, बाह्याथैकरतेःपुरा परिणतप्रज्ञात्मनः सांप्रतम् । तत्तत्तन्निधनाय साधनमभूद्वैराग्यकाष्ठास्पृशो, दुर्बोधं हि तदन्यदेव विदुषामप्राकृतं कौशलम् ॥
१ यथा विषमुपमुअन्तो विद्यापुरुषा न मरणमुपयान्ति ।
पुद्गलकर्मण उदयं तथा भुङ्क्ते नैव भुंक्ते ज्ञानी ॥ यथा मद्यं पिबन्नरतिभावेन माद्यति न पुरुषः। द्रव्योपभोगे अरतो ज्ञानी अपि न बध्यते तथैव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org