SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ अथ अष्टमोऽध्यायः॥८॥ इदानी तपसो विनयभावेन यथोक्तमावश्यकमावहन्नित्युपक्षिप्तषडावश्यकानुष्ठानमासूत्रयतिअयमहमनुभूतिरितिस्ववित्तिविषजत्तथेतिमतिरुचिते ।। स्वात्मनि निःशङ्कमवस्थातुमथावश्यकं चरेत् पोढा ॥ १ ॥ अथेति मङ्गलेऽधिकारे वा। इत आवश्यकमधिक्रियते इत्यर्थः । चरे. दनुतिष्ठेत् तपस्वी । किं तत् ? आवश्यकं वक्ष्यमाणलक्षणम् । कतिधा ? षोढा पदप्रकारम् । किं कर्तुम् ? अवस्थातुमवस्थानं कर्तुम् । प्रतिक्षणमुत्पादव्ययध्रौव्यैकत्वलक्षणां वृत्तिमवलम्बितुमित्यर्थः । कथं यथा भवति ? निःशङ्क निश्चितं शं सुखं यत्र तन्निःशङ्कम् । शेषाद्वा कः। अथवा शङ्कायाः संशयान्निष्क्रान्तं निःशकं कृत्वा । लक्षणया निश्चलमित्यर्थः । वावस्थातुम् ? स्वात्मनि स्वस्वरूपे । कीदृशे ? अयमहमनुभूतिरितिस्ववित्तिविषजत्तथेति मतिरुचिते । यथा येन शुद्धज्ञानघनत्वलक्षणेन प्रकारेणावस्थितिः स्वात्मा तथा तेन प्रकारेणानुभवामीति मतिः श्रद्धा तथेतिमतिः । मतिशब्दोत्र श्रद्धानार्थो, 'मतिबुद्धिपूजार्थेभ्यः क्तः' इत्यभिधानात् । तथा प्रतीति रित्यर्थः। अयं स्वसंवेदनप्रत्यक्षेणालम्ब्यमानोऽहमहमित्युल्लेखेनानुभूयमानश्चास्मि । कीदृशः ? अनुभूतिरनुभवः स्वपरज्ञप्तिरूप इत्येवंलक्षणा स्ववित्तिरात्मसंवेदनम् अयमहमनुभूतिरितिस्ववित्तिः । तया विषजन्ती संगच्छमाना अशक्यविवेचनत्वेनैकलोलीभवन्ती तथेतिमतिरयमहमनुभूतिरिति स्ववित्तिविषजत्तथेतिमतिः । तथा रुचितः श्रद्धित आत्मनात्मनि निश्चितः सोयं तथोक्तः ॥ मुमुक्षोः षडावश्यककर्मनिर्माणसमर्थनार्थ चतुर्दशभिः पद्यैः स्थलशुद्धिं विधत्ते । तत्र तावदात्मदेहान्तरज्ञानेन वैराग्येण चाभिभूततत्साममयों विषयोपभोगो न कर्मबन्धाय प्रभवतीति दृष्टान्तावष्टम्भेनाचष्टे मन्त्रेणेव विषं मृत्यबै मध्वरत्या मदाय वा । न बन्धाय हतं ज्ञप्त्या न विरक्त्यार्थसेवनम् ॥२॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy