________________
५३८
अनगारधर्मामृते
प्राणान् । किंविशिष्टः सन् ? तत्प्रणिधानजातपरमानन्दः । तत्र विशदे तपसि प्रणिधानं समाधानमेकलोलीभावस्तत्प्रणिधानम् । तेन जातः संपन्नः परमानन्द उत्कृष्टः प्रमोदो यस्य स एवम् । किं कृत्वा ? नीत्वा प्रापय्य । किं तत् ? तदेव विशदं तप एव । काम् ? उद्गतिं समुन्नति ध्यानावसानम् । तपः कृत्त्वेत्यर्थः । किं कुर्वन् ? बिभ्रद धारयन् । काम् ? तदेकपरताम् । तद् विशदं तप एकमद्वितीयं परं प्रधानं यस्यासौ तदेकपरः । तस्य भावस्तत्ता, ताम् । कथंभूतो भूत्वा ? आगूर्ण उद्यतः। क ? तपसि । किंविशिष्टे ? विशदे निर्मले । किं कुर्वन् ? अपास्यन् निराकुर्वन् । काम् ? हिंसाम् । कथम् ? अमित उभयतः । द्रव्याहिंसां भावहिंसां च निरस्यनित्यर्थः । किं कृत्वा ? त्यक्त्वा विहाय । कम् ? विषयाभिलाषमिन्द्रियार्थस्पृहाम् । त्यक्त्वा विषयाभिलाषमभितो हिंसामपास्यन्नित्युद्योतनोक्तिरियम् । तपस्यागू! विशदे इत्युद्यवनोपदेशोयम् । तदेकपरतां बिभ्रदिति निर्वहणभणतिरियम् । तदेवोद्गतिं नीत्वेति साधनाभिधानमिदम् । तत्प्रणिधानजातपरमानन्दो विमुञ्चत्यसूनिति निस्तरणनिरूपणेयम् । इति भद्रम् । (ग्रन्थसंख्या १२५६)
योधर्मामृतमुद्दधार सुमनस्तृप्त्यै जिनेन्द्रागम,क्षीरोदं शिवधीनिमथ्य जयतात्स श्रीमदाशाधरः । भव्यात्मा हरदेव इत्यभिधया ख्यातश्च नन्द्यादिम, टीकाशुक्तिमचीकरत्सुखमिमां तस्योपयोगाय यः ॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतानगारधर्मटीकायां भव्यकुमुदचन्द्रिकासंज्ञायां तपस्याराधनाविधानीयो
नाम सप्तमोऽध्यायः ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org