________________
सप्तमोऽध्यायः।
निदानं च, इति चतुर्विधम् । रौद्रमपि हिंसानृतस्तेयविषयसंरक्षणेभ्यः स्मृतिसमन्वाहारश्चतुर्धा । किंविशिष्टमुभयमपि ? कुगतिदं तिर्यङ्नारककुदेवकुमानुषत्वप्रदम् । नो चेद् यद्यनिशं ध्यानं धयं शुक्लं च न जोषिज्यसे तर्हि साधो विधास्यसि करिष्यसि त्वम् । काम् ? सिद्धिवर्धू मुक्तिकान्ताम् । किंविशिष्टाम् ? मुधोत्कण्ठां विफलोत्कलिकाम् । किं विशिष्टः सन् ? अकुण्ठः । कुण्ठो मन्दः क्रियासु यः । न कुण्ठोऽकुण्ठः । श्रेयोर्थक्रियासूद्यत इत्यर्थः। किं कुर्वन् ? भ्रमन् पर्यटन् । क ? भवाब्धौ संसारसमुद्रे । किंविशिष्टे ? क्लेशनृशंसकीर्णजनुरावर्ते । ननूंषि जन्मान्येवावर्ता जलनमणानि जनुरावर्ताः । क्लेशा एव नृशंसाः क्रूरकर्मकरा मकरादिजलचराः केशनृशंसाः । तैः कीर्णाः संकुलाः केशनृशंसकीः । तथाविधा जनुरावर्ता यस्मिन् स एवम् । कियदमन् ? चिरं बहुतरकालम् । सद्ध्यानविहीनस्य शुभकर्मसु तत्परस्य सिद्धिवधूरुत्कण्ठमानापि चिरकालभाविनी भविष्यति ध्यानैकसाध्यत्वात्तस्या इति भावः । तथा चोक्तम्
सपयत्थं तित्थयरं अधिगदबुद्धिस्स सुत्तरोइस्स। दूरतरं णिव्वाणं संजमपदसंपदं तस्स ॥ ध्यानम् । तपस उद्योतनाचाराधनापञ्चकं प्रपञ्चयंस्तत्फलमाहयस्त्यक्त्वा विषयाभिलाषमभितो हिंसामपास्यंस्तप,स्थानों विशदे तदेकपरतां बिभ्रत्तदेवोद्गतिम् । नीत्वा तत्प्रणिधानजातपरमानन्दो विमुञ्चत्यमून् , स स्त्रात्वाऽमरमर्त्यशर्मलहरीष्वीर्ते परां नितिम् ॥१०४॥ ईर्ते गच्छति । कोसौ ? स साधुः । काम् ? निर्वृति मुक्तिम् । किंविशिष्टाम् ? परां परमाम् । जीवन्मुक्तिमनुभूय परममुक्तिमासादयतीत्यर्थः । किं कृत्वा ? स्नात्वा आप्लुत्त्य । कासु ? अमरमर्त्यशर्मलहरीषु । अमराश्चमांश्चामरमाः । तेषां शर्माणि सुखानि । तेषां लहर्यः परम्परास्तासु । यः किम् । यो विमुञ्चति विधिपूर्वकं त्यजति । कान् ? असून्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org