________________
५३६
अनगारधर्मामृते
9
न केवलम् अन्तर्मुहूर्त च । उत्कर्षतो द्वादशवर्षाणि जघन्यतोन्तर्मुहूर्त चेत्यर्थः : । यस्मिन् किम् ? यस्मिन्नपेक्ष्यते समाधिकामैः । किं तत् ? स्वान्यवैयावृत्त्यम् । कस्मै ? समाधये रत्नत्रयैकाग्रतार्थम् । स्वपरवैयावृत्यसापेक्षं भक्तप्रत्याख्यानमरणमित्यर्थः ।
व्युत्सर्गतपसः फलमाह -
नैः सज्यं जीविताशान्तो निर्भयं दोषविच्छिदा । स्याद्व्युत्सर्गाच्छिवोपाय भावनापरतादि च ॥ १०२ ॥
स्यात् । किं तत् ? नैःसङ्ख्यादि । कस्मात् ? व्युसर्गात् । नैःसङ्ख्यं नैर्घन्ध्यम् । जीविताशान्तो जीविताशाया नाशः । निर्भयं भयाभावः । दोषविच्छिदा रागादिदोषविच्छेदः । शिवोपाय भावनापरता रत्नत्रयाभ्यासप्राधान्यम् । आदिशब्दादभ्युदय निःश्रेयसे च । व्युत्सर्गः ।
अथ दुर्ध्यानविधानपुरस्सरं सद्ध्यानविधानमभिधाय तेन बिना केवलक्रियानिष्टस्य मुक्त्यभावं भावयन्नाह
आर्तें रौद्रमिति द्वयं कुगतिदं त्यक्त्वा चतुर्धा पृथग्, धर्म्य शुक्लमिति द्वयं सुगतिदं ध्यानं जुषस्वानिशम् । नो चेत्क्लेशनृशंस कीर्ण जनुरावर्ते भवान्धौ भ्रमन्, साधो सिद्धिवधुं विधास्यसि मुधोत्कण्ठामकुण्ठश्चिरम् १०३ हे साधो सिद्धिसाधनोद्यत, जुषस्व प्रीत्या सेवस्व त्वमनिशं नित्यम् । किं तत् ? ध्यानम् । कीदृशम् ? द्वयम् । कथम् ? धर्म्य शुक्लं चेति । कतिधा ? चतुर्धा । कथम् ? पृथक् प्रत्येकम् । आज्ञापायविपाक संस्थानविचयविकल्पाच्चतुर्विधं धर्म्यम् । पृथक्त्व वितर्कवी चार मेकत्व वितर्कावीचारं सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रिया निवर्ति चेति शुक्लमपि चतुर्विधम् । किंविशिष्टमुभयमपि ? सुगतिदं सुदेवत्वसु मानुषत्वमुक्तिप्रदम् । किं कृत्वा ? त्यक्त्वा । किं तत् ? ध्यानम् । कीदृशम् ? द्वयम् । कथम् ? आर्तें रौद्रं चेति । कतिधा ? चतुर्धा । कथम् ? पृथक् आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारो, मनोज्ञस्य विप्रयोगे तत्संप्रयोगाय स्मृतिसमन्वाहारो, वेदनायाः उपनिपतिते तदपनीतये स्मृतिसमन्वाहारो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org