________________
सप्तमोऽध्यायः ।
निष्करुणो निरनुशयो दानवभावं मुनिर्धत्ते ॥ सन्मार्गप्रतिकूलो दुर्मार्गप्रकथने पटुप्रशः । मोहेन मोहयन्नपि संमोहां भावनां श्रयति ॥ आभिश्च भावनाभिर्विराधको देवदुर्गतिं लभते । तस्याः प्रच्युतमात्रः संसारमहोदधिं भ्रमति ॥ तप इत्यादि । उक्तं च
तपसः श्रुतस्य सत्त्वस्य भावनैकत्वभावना ज्ञेया । धृतिबल विभावनापि च सैषा श्रेष्ठापि पञ्चविधा ॥ दान्तादिसुभावनया तपसस्तस्येन्द्रियाणि यान्ति वशम् । इन्द्रिययोग्यं च मनः समाधिहेतुं समाचरति ॥ इन्द्रिययोग्यमिति इन्द्रियवश्यतापरिकर्म ।
५३५
श्रुतभावनया सिध्यन्ति बोधचारित्रदर्शन तपांसि । प्रकृतासन्धां तस्मात् सुखमव्यथितः समापयति ॥ रात्रौ दिवा च देवैर्विभीष्यमाणो भयानकै रूपैः । साहसिकभावरसिको वहति धुरं निर्भयः सकलाम् ॥ एकत्वभावरसिको न कामभोगे गणे शरीरे वा । सजति हि विरागयोगी स्पृशति सदानुत्तरं धर्मम् ॥ सकलपरीषहपृतनामागच्छन्तीं सहोपसर्गौघैः । दुर्धरपथकरवेगां भयजननीमल्पसत्वानाम् ॥ धृतिनिबिडबद्धकक्षो विनिहन्ति निराकुलो मुनिः सहसा । धृतिभावनया शूरः संपूर्णमनोरथो भवति ॥
भक्तप्रत्याख्यानस्य लक्षणं सल्लेखनायाः प्रभृत्युत्कर्षतो जघन्यतश्च कालसुपदिशति
यस्मिन् समाधये स्वान्यवैयावृत्त्यमपेक्ष्यते । तद्वादशाब्दानीषेन्तर्मुहूर्त चाशनोञ्झनम् ॥ १०१ ॥
ईषे इष्टं पूर्वाचार्यैः । किं तत् ? अशनोज्झनं भक्तप्रत्याख्यानमरणम् । कानू ? अब्दान् संवत्सरान् । कति ? द्वादश ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org