SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते कान्दादिसंक्लिष्टभावनापरिहारेणात्मसंस्कारकाले तपःश्रुतसवैकत्वकृतिभावनाः प्रयुञानस्य परीषहविजयमुपदिशतिकान्दीप्रमुखाः कुदेवगतिदाः पश्चापि दुर्भावना,स्त्यक्त्वा दान्तमनास्तपःश्रुतसदाभ्यासादविभ्यभृशम् । भीष्मभ्योपि समिद्धसाहसरसो भूयस्तरां भावय,बेकत्वं न परीषहैधृतिसुधास्वादे रतस्तप्यते ॥ १०० ॥ न तप्यते न संक्लिश्यते तपस्वी । कैः ? परीषहैः क्षुदादिभिः । किंविशिष्टः सन् ? रत आसक्तः । क ? धृतिसुधास्वादे । कृतिः स्वरूपधारणा । संतोष इति यावत् । तिरेव सुधा अमृतं तिसुधा। तस्याः स्वादश्चर्वणं, तस्मिन् । किं कुर्वन् ? भावयन् । किं तत् ? एकत्वम् । कथम् ? भूयस्तरां पुनः पुनः । किं कुर्वन् ? अबिभ्यद् भयमगच्छन् । केभ्योपि ? भीष्मेभ्योपि ? भयानकेभ्योपि वेतालादिभ्यः । कथम् । भृशमत्यर्थम्। किंविशिष्टो यतः ? समिद्धसाहसरसः संततदीप्तसाह. सिकभावः । सत्त्वभावनां भजन्नित्यर्थः । किंविशिष्टः ? दान्तमना दमितचित्तः । कस्मात् ? तपाश्रुतसदाभ्यासात् तपःश्रुतयोर्नित्यभावनातः । किं कृत्वा ? त्यक्त्वा । काः ? दुर्भावनाः । किंविशिष्टाः ? कान्दीप्र. मुखाः । कियन्तीः ? पञ्चापि । कीदृशीस्ताः? कुदेवगतिदा भाण्डतौरिककाहारशौनिककुक्कुरप्रायदेवदुर्गतिप्रदाः। तथा चोक्तम् कान्दी कैल्विषी चैव भावना चाभियोगजा। दानवी चापि संमोहा त्याज्या पश्चतयी च सा॥ कन्दर्प कौत्कुच्यं विहेतनं हासनर्मणी विदधत् । परविस्मयं च सततं कान्दी भावनां भजते ॥ केवलिधर्माचार्यश्रुतसाधूनामवर्णवादपरः। मायावी च तपस्वी कैल्बिषिकी भावनां कुरुते ॥ मन्त्राभियोगकौतुकभूतक्रीडादि कर्म कुर्वाणः। सातरसद्धि निमित्तादभियोगां भावनां भजते ॥ अनुबद्धरोषविग्रहसंसक्ततया निमित्तसंसेवी। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy